Сурья упанишада
सूर्योपनिषत् सूर्याथर्वशीर्षम् च
sūryopaniṣat sūryātharvaśīrṣam ca
अथर्ववेदीय सामान्योपनिषत् । atharvavedīya sāmānyopaniṣat ।
सूदितस्वातिरिक्तारिसूरिनन्दात्मभावितम् । sūditasvātiriktārisūrinandātmabhāvitam ।
सूर्यनारायणाकारं नौमि चित्सूर्यवैभवम् ॥ sūryanārāyaṇākāraṃ naumi citsūryavaibhavam ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । sthirairaṅgaistuṣṭuvāṃsastanūbhirvyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ hariḥ oṃ
अथ सूर्याथर्वाङ्गिरसं व्याख्यास्यामः । atha sūryātharvāṅgirasaṃ vyākhyāsyāmaḥ ।
ब्रह्मा ऋषिः । brahmā ṛṣiḥ ।
गायत्री छन्दः । gāyatrī chandaḥ ।
आदित्यो देवता । ādityo devatā ।
हंसः सोऽहमग्निनारायणयुक्तं बीजम् । haṃsaḥ so'hamagninārāyaṇayuktaṃ bījam ।
हृल्लेखा शक्तिः । hṛllekhā śaktiḥ ।
वियदादिसर्गसंयुक्तं कीलकम् । viyadādisargasaṃyuktaṃ kīlakam ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः । caturvidhapuruṣārthasiddhyarthe viniyogaḥ ।
षट्स्वरारूढेन बीजेन षडङ्गं रक्ताम्बुजसंस्थितम् । ṣaṭsvarārūḍhena bījena ṣaḍaṅgaṃ raktāmbujasaṃsthitam ।
सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यनारायणं य एवं वेद स वै ब्राह्मणः । saptāśvarathinaṃ hiraṇyavarṇaṃ caturbhujaṃ padmadvayābhayavaradahastaṃ kālacakrapraṇetāraṃ śrīsūryanārāyaṇaṃ ya evaṃ veda sa vai brāhmaṇaḥ ।
ॐ भूर्भुवःसुवः । oṃ bhūrbhuvaḥsuvaḥ ।
ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । oṃ tatsaviturvareṇyaṃ bhargo devasya dhīmahi ।
धियो यो नः प्रचोदयात् । dhiyo yo naḥ pracodayāt ।
सूर्य आत्मा जगतस्तस्थुषश्च । sūrya ātmā jagatastasthuṣaśca ।
सूर्याद्वै खल्विमानि sūryādvai khalvimāni
भूतानि जायन्ते । bhūtāni jāyante ।
सूर्याद्यज्ञः पर्जन्योऽन्नमात्मा नमस्त आदित्य । sūryādyajñaḥ parjanyo'nnamātmā namasta āditya ।
त्वमेव प्रत्यक्षं कर्मकर्तासि । त्वमेव प्रत्यक्षं ब्रह्मासि । tvameva pratyakṣaṃ karmakartāsi । tvameva pratyakṣaṃ brahmāsi ।
त्वमेव प्रत्यक्षं विष्णुरसि । tvameva pratyakṣaṃ viṣṇurasi ।
त्वमेव प्रत्यक्षं रुद्रोऽसि । tvameva pratyakṣaṃ rudro'si ।
त्वमेव प्रत्यक्षमृगसि । tvameva pratyakṣamṛgasi ।
त्वमेव प्रत्यक्षं यजुरसि । tvameva pratyakṣaṃ yajurasi ।
त्वमेव प्रत्यक्षं सामासि । tvameva pratyakṣaṃ sāmāsi ।
त्वमेव प्रत्यक्षमथर्वासि । tvameva pratyakṣamatharvāsi ।
त्वमेव सर्वं छन्दोऽसि । tvameva sarvaṃ chando'si ।
आदित्याद्वायुर्जायते । ādityādvāyurjāyate ।
आदित्याद्भूमिर्जायते । ādityādbhūmirjāyate ।
आदित्यादापो ādityādāpo
जायन्ते । jāyante ।
आदित्याज्ज्योतिर्जायते । ādityājjyotirjāyate ।
आदित्याद्व्योम दिशो जायन्ते । ādityādvyoma diśo jāyante ।
आदित्याद्देवा जायन्ते । ādityāddevā jāyante ।
आदित्याद्वेदा जायन्ते । ādityādvedā jāyante ।
आदित्यो वा एष एतन्मण्डलं तपति । ādityo vā eṣa etanmaṇḍalaṃ tapati ।
असावादित्यो ब्रह्म । asāvādityo brahma ।
आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः । ādityo'ntaḥkaraṇamanobuddhicittāhaṅkārāḥ ।
आदित्यो वै व्यानः समानोदानोऽपानः प्राणः । ādityo vai vyānaḥ samānodāno'pānaḥ prāṇaḥ ।
आदित्यो वै श्रोत्रत्वक्चक्षूरसनघ्राणाः । ādityo vai śrotratvakcakṣūrasanaghrāṇāḥ ।
आदित्यो वै वाक्पाणिपादपायूपस्थाः । ādityo vai vākpāṇipādapāyūpasthāḥ ।
आदित्यो वै शब्दस्पर्शरूपरसगन्धाः । ādityo vai śabdasparśarūparasagandhāḥ ।
आदित्यो वै वचनादानागमनविसर्गानन्दाः । ādityo vai vacanādānāgamanavisargānandāḥ ।
आनन्दमयो ज्ञानमयो विज्ञानानमय आदित्यः । ānandamayo jñānamayo vijñānānamaya ādityaḥ ।
नमो मित्राय भानवे मृत्योर्मा पाहि । namo mitrāya bhānave mṛtyormā pāhi ।
भ्राजिष्णवे विश्वहेतवे नमः । bhrājiṣṇave viśvahetave namaḥ ।
सूर्याद्भवन्ति भूतानि सूर्येण पालितानि तु । sūryādbhavanti bhūtāni sūryeṇa pālitāni tu ।
सूर्ये लयं प्राप्नुवन्ति यः सूर्यः सोऽहमेव च । sūrye layaṃ prāpnuvanti yaḥ sūryaḥ so'hameva ca ।
चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः । cakṣurno devaḥ savitā cakṣurna uta parvataḥ ।
चक्षुर्धाता दधातु नः । cakṣurdhātā dadhātu naḥ ।
आदित्याय विद्महे सहस्रकिरणाय धीमहि । ādityāya vidmahe sahasrakiraṇāya dhīmahi ।
तन्नः सूर्यः प्रचोदयात् । tannaḥ sūryaḥ pracodayāt ।
सविता पश्चात्तात्सविता पुरस्तात्सवितोत्तरात्तात्सविताधरात्तात् । savitā paścāttātsavitā purastātsavitottarāttātsavitādharāttāt ।
सविता नः सुवतु सर्वतातिं सविता नो रासतां दीर्घमायुः । savitā naḥ suvatu sarvatātiṃ savitā no rāsatāṃ dīrghamāyuḥ ।
ॐइत्येकाक्षरं ब्रह्म । oṃityekākṣaraṃ brahma ।
घृणिरिति द्वे अक्षरे । ghṛṇiriti dve akṣare ।
सूर्य इत्यक्षरद्वयम् । sūrya ityakṣaradvayam ।
आदित्य इति त्रीण्यक्षराणि । āditya iti trīṇyakṣarāṇi ।
एतस्यैव सूर्यस्याष्टाक्षरो मनुः । etasyaiva sūryasyāṣṭākṣaro manuḥ ।
यः सदाहरहर्जपति स वै ब्राह्मणो भवति स वै ब्राह्मणो भवति । yaḥ sadāharaharjapati sa vai brāhmaṇo bhavati sa vai brāhmaṇo bhavati ।
सूर्याभिमुखो जप्त्वा महाव्याधिभयात्प्रमुच्यते । sūryābhimukho japtvā mahāvyādhibhayātpramucyate ।
अलक्ष्मीर्नश्यति । alakṣmīrnaśyati ।
अभक्ष्यभक्षणात्पूतो भवति । abhakṣyabhakṣaṇātpūto bhavati ।
अगम्यागमनात्पूतो भवति । agamyāgamanātpūto bhavati ।
पतितसम्भाषणात्पूतो भवति । patitasambhāṣaṇātpūto bhavati ।
असत्सम्भाषणात्पूतो भवति । asatsambhāṣaṇātpūto bhavati ।
मध्याह्ने सूराभिमुखः पठेत् । madhyāhne sūrābhimukhaḥ paṭhet ।
सद्योत्पन्नपञ्चमहापातकात्प्रमुच्यते । sadyotpannapañcamahāpātakātpramucyate ।
सैषां सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित्प्रशंसयेत् । saiṣāṃ sāvitrīṃ vidyāṃ na kiñcidapi na kasmaicitpraśaṃsayet ।
य एतां महाभागः प्रातः पठति स भाग्यवाञ्जायते । ya etāṃ mahābhāgaḥ prātaḥ paṭhati sa bhāgyavāñjāyate ।
पशून्विन्दति । paśūnvindati ।
वेदार्थं लभते । vedārthaṃ labhate ।
त्रिकालमेतज्जप्त्वा क्रतुशतफलमवाप्नोति । trikālametajjaptvā kratuśataphalamavāpnoti ।
यो हस्तादित्ये जपति स महामृत्युं तरति य एवं वेद ॥ yo hastāditye japati sa mahāmṛtyuṃ tarati ya evaṃ veda ॥
इत्युपनिषत् ॥ ityupaniṣat ॥
हरिः ॐ भद्रं कर्णेभिरिति शान्तिः ॥ hariḥ oṃ bhadraṃ karṇebhiriti śāntiḥ ॥
इति सूर्योपनिषत्समाप्ता ॥ iti sūryopaniṣatsamāptā ॥

Комментарии: Сурья упанишада