Шарирака упанишада

शारीरकोपनिषत्
śārīrakopaniṣat

तत्त्वग्रामोपायसिद्धं परतत्त्वस्वरूपकम् । tattvagrāmopāyasiddhaṃ paratattvasvarūpakam ।
शारीरोपनिषद्वेद्यं श्रीरामब्रह्म मे गतिः ॥ śārīropaniṣadvedyaṃ śrīrāmabrahma me gatiḥ ॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु । tejasvi nāvadhītamastu ।
मा विद्विषावहै ॥ mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अथातः पृथिव्यादिमहाभूतानां समवायं शरीरम् । oṃ athātaḥ pṛthivyādimahābhūtānāṃ samavāyaṃ śarīram ।
यत्कठिनं सा पृथिवी यद्द्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिअरं तदाकाशम् श्रोत्रादीनि ज्ञानेन्द्रियाणि । yatkaṭhinaṃ sā pṛthivī yaddravaṃ tadāpo yaduṣṇaṃ tattejo yatsaṃcarati sa vāyuryatsuṣiaraṃ tadākāśam śrotrādīni jñānendriyāṇi ।
श्रोत्रमाकाशे वायौ त्वगग्नौ चक्षुरप्सु जिह्वा पृथिव्यां घ्राणमिति । śrotramākāśe vāyau tvagagnau cakṣurapsu jihvā pṛthivyāṃ ghrāṇamiti ।
एवमिन्द्रियाणां यथाक्रमेण शब्दस्पर्शरूपरसगन्धाश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पन्नाः । evamindriyāṇāṃ yathākrameṇa śabdasparśarūparasagandhāścaite viṣayāḥ pṛthivyādimahābhūteṣu krameṇotpannāḥ ।
वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि । vākpāṇipādapāyūpasthākhyāni karmendriyāṇi ।
तेषां क्रमेण वचनादानगमनविसर्गानन्दश्चैते विषयाः पृथिव्यादिमहाभूतेषु क्रमेणोत्पनाः । teṣāṃ krameṇa vacanādānagamanavisargānandaścaite viṣayāḥ pṛthivyādimahābhūteṣu krameṇotpanāḥ ।
मनोबुद्धिरहङ्कारश्चित्तमत्यन्तःकरणचतुष्टयम् । manobuddhirahaṅkāraścittamatyantaḥkaraṇacatuṣṭayam ।
तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणास्वरूपश्चैते विषयाः । teṣāṃ krameṇa saṅkalpavikalpādhyavasāyābhimānāvadhāraṇāsvarūpaścaite viṣayāḥ ।
मनःस्थानं गलान्तं बुद्धेर्वदनमहङ्कारस्य हृदयं चित्तस्य नाभिरिति । manaḥsthānaṃ galāntaṃ buddhervadanamahaṅkārasya hṛdayaṃ cittasya nābhiriti ।
अस्थिचर्मनाडीरोममांसाश्चेति पृथिव्यंशाः । asthicarmanāḍīromamāṃsāśceti pṛthivyaṃśāḥ ।
मूत्रश्लेष्मरक्तशुक्रस्वेदा अबंशाः । mūtraśleṣmaraktaśukrasvedā abaṃśāḥ ।
क्षुत्तृष्णालस्यमोहमैथुनान्यग्नेः । kṣuttṛṣṇālasyamohamaithunānyagneḥ ।
प्रचारणविलेखनस्थूलाक्ष्युन्मेषनिमेषादि वायोः । pracāraṇavilekhanasthūlākṣyunmeṣanimeṣādi vāyoḥ ।
कामक्रोधलोभमोहभयान्याकाशस्य । kāmakrodhalobhamohabhayānyākāśasya ।
शब्दस्पर्शरूपरसगन्धाः पृथिवीगुणाः । śabdasparśarūparasagandhāḥ pṛthivīguṇāḥ ।
शब्दस्पर्शरूपरसाश्चापां गुणाः । śabdasparśarūparasāścāpāṃ guṇāḥ ।
शब्दस्पर्शरूपाण्यग्निगुणाः । śabdasparśarūpāṇyagniguṇāḥ ।
शब्दस्पर्षाविति वायुगुणौ । śabdasparṣāviti vāyuguṇau ।
शब्द एक आकाशस्य । śabda eka ākāśasya ।
सात्त्विकराजसतामसलक्षणानि त्रयो गुणाः ॥ sāttvikarājasatāmasalakṣaṇāni trayo guṇāḥ ॥

अहिंसा सत्यमस्तेयब्रह्मचर्यापरिग्रहाः । ahiṃsā satyamasteyabrahmacaryāparigrahāḥ ।
अक्रोधो गुरुशुश्रुषा शौचं सन्तोष आर्जवम् ॥१॥ akrodho guruśuśruṣā śaucaṃ santoṣa ārjavam ॥1॥

अमानित्वमदम्भित्वमास्तिकत्वमहिंस्रता । amānitvamadambhitvamāstikatvamahiṃsratā ।
एते सर्वे गुणा ज्ञेयाः सात्त्विकस्य विशेषतः ॥२॥ ete sarve guṇā jñeyāḥ sāttvikasya viśeṣataḥ ॥2॥

अहं कर्ताऽस्म्यहं भोक्ताऽस्म्यहं वक्ताऽभिमानवान् । ahaṃ kartā'smyahaṃ bhoktā'smyahaṃ vaktā'bhimānavān ।
एते गुणा राजसस्य प्रोच्यन्ते ब्रह्मवित्तमैः ॥३॥ ete guṇā rājasasya procyante brahmavittamaiḥ ॥3॥

निद्रालस्ये मोहरागौ मैथुनं चौर्यमेव च । nidrālasye moharāgau maithunaṃ cauryameva ca ।
एते गुणस्तामसस्य प्रोच्यन्ते ब्रह्मवादिभिः ॥४॥ ete guṇastāmasasya procyante brahmavādibhiḥ ॥4॥

ऊर्ध्वे सात्विको मध्ये रजसोऽधस्तामस इति । ūrdhve sātviko madhye rajaso'dhastāmasa iti ।
सत्यज्ञानं सात्त्विकम् । satyajñānaṃ sāttvikam ।
धर्मज्ञानं राजसम् । dharmajñānaṃ rājasam ।
तिमिरान्धं तामसमिति । timirāndhaṃ tāmasamiti ।
जाग्रत्स्वप्नसुषुप्तितुरीयमिति चतुर्विधा अवस्थाः । jāgratsvapnasuṣuptiturīyamiti caturvidhā avasthāḥ ।
ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं चतुर्दशकरणयुक्तं जाग्रत् । jñānendriyakarmendriyāntaḥkaraṇacatuṣṭayaṃ caturdaśakaraṇayuktaṃ jāgrat ।
अन्तःकरणचतुष्टयैरेव संयुक्तः स्वप्नः । antaḥkaraṇacatuṣṭayaireva saṃyuktaḥ svapnaḥ ।
चित्तैककरणा सुषुप्तिः । cittaikakaraṇā suṣuptiḥ ।
केवलजीवयुक्तमेव तुरीयमिति । kevalajīvayuktameva turīyamiti ।
उन्मीलितनिमीलितमध्यस्थजीवपरमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ इति विज्ञायते ॥ unmīlitanimīlitamadhyasthajīvaparamātmanormadhye jīvātmā kṣetrajña iti vijñāyate ॥

बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया । buddhikarmendriyaprāṇapañcakairmanasā dhiyā ।
शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते ॥५॥ śarīraṃ saptadaśabhiḥ sūkṣmaṃ talliṅgamucyate ॥5॥

मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ ।
एताः प्रकृतयस्त्वष्टौ विकाराः षोडशापरे ॥६॥ etāḥ prakṛtayastvaṣṭau vikārāḥ ṣoḍaśāpare ॥6॥

श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam ।
पायूपस्थौ करौ पादौ वाक्चैव दशमी मता ॥७॥ pāyūpasthau karau pādau vākcaiva daśamī matā ॥7॥

शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca ।
त्रयोविंशतिरेतानि तत्त्वानि प्रकृतानि तु । trayoviṃśatiretāni tattvāni prakṛtāni tu ।
चतुर्विंशतिरव्यक्तं प्रधानं पुरुषः परः ॥८॥ caturviṃśatiravyaktaṃ pradhānaṃ puruṣaḥ paraḥ ॥8॥

इत्युपनिषत् ॥ ityupaniṣat ॥

ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्वि नावधीतमस्तु । tejasvi nāvadhītamastu ।
मा विद्विषावहै ॥ mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

॥ इति कृष्णयजुर्वेदीय शारीरकोपनिषत्समाप्ता ॥ ॥ iti kṛṣṇayajurvedīya śārīrakopaniṣatsamāptā ॥

Автор: Шарирака упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Шарирака упанишада