Прана-агни-хотра упанишада

प्राणाग्निहोत्रोपनिषत्
prāṇāgnihotropaniṣat

शरीरयज्ञसंशुद्धचित्तसंजातबोधतः । śarīrayajñasaṃśuddhacittasaṃjātabodhataḥ ।
मुनयो यत्पदं यान्ति तद्रामपदमाश्रये ॥ munayo yatpadaṃ yānti tadrāmapadamāśraye ॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥
अथातः सर्वोपनिषत्सारं संसारज्ञानातीत मन्त्रसूक्तं शारीरयज्ञं व्याख्यास्यामः । athātaḥ sarvopaniṣatsāraṃ saṃsārajñānātīta mantrasūktaṃ śārīrayajñaṃ vyākhyāsyāmaḥ ।
यस्मिन्नेव पुरुषः शरीरे विनाप्यग्निहोत्रेण विनापि सांख्ययोगेन संसारविमुक्तिर्भवतीति । yasminneva puruṣaḥ śarīre vināpyagnihotreṇa vināpi sāṃkhyayogena saṃsāravimuktirbhavatīti ।
स्वेन विधिनान्नं भूमौ निक्षिप्य या ओषधीः सोमराज्ञीरिति तिसृभिरन्नपत इति द्वाभ्या मनुमन्त्रयते । svena vidhinānnaṃ bhūmau nikṣipya yā oṣadhīḥ somarājñīriti tisṛbhirannapata iti dvābhyā manumantrayate ।
या ओषधयः सोमराज्ञीर्बह्वीः शतविचक्षणाः । yā oṣadhayaḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ ।
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥१॥ bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥1॥

याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ ।
बृहस्पतिप्रसूतास्ता नो मुञ्चत्वंहसः ॥२॥ bṛhaspatiprasūtāstā no muñcatvaṃhasaḥ ॥2॥

जीवला नघारिषां माते बध्नामोषधिम् । jīvalā naghāriṣāṃ māte badhnāmoṣadhim ।
यातयायु रुपाहरादप रक्षांसि चातयात् ॥३॥ yātayāyu rupāharādapa rakṣāṃsi cātayāt ॥3॥

अन्नपतेऽन्नस्य नो वेह्यनमीवस्य शुष्मिणः । annapate'nnasya no vehyanamīvasya śuṣmiṇaḥ ।
प्रप्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥४॥ prapradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade ॥4॥

यदन्नमग्निर्बहुधा विराद्धि रुद्रैः प्रजग्धं यदि वा पिशाचैः । yadannamagnirbahudhā virāddhi rudraiḥ prajagdhaṃ yadi vā piśācaiḥ ।
सर्वं तदीशानो अभयं कृणोतु शिवमीशानाय स्वाहा ॥५॥ sarvaṃ tadīśāno abhayaṃ kṛṇotu śivamīśānāya svāhā ॥5॥

अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः । antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ ।
त्वं यज्ञस्त्वं ब्रह्मा त्वं रुद्रस्तवं विष्णुस्त्वं वषट्कार tvaṃ yajñastvaṃ brahmā tvaṃ rudrastavaṃ viṣṇustvaṃ vaṣaṭkāra
आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः सुवरोंनमः । āpo jyotī raso'mṛtaṃ brahma bhūrbhuvaḥ suvaroṃnamaḥ ।
आपः पुनन्तु पृथिवीं पृथिवी पूता पुनातु माम् । āpaḥ punantu pṛthivīṃ pṛthivī pūtā punātu mām ।
पुनन्तु ब्रह्मणस्पतिर्ब्रह्मपूता पुनातु माम् । punantu brahmaṇaspatirbrahmapūtā punātu mām ।
यदुच्छिष्टमभोज्यं यद्वा दुश्चरितं मम । yaducchiṣṭamabhojyaṃ yadvā duścaritaṃ mama ।
सर्वं पुनन्तु मामापोऽसतां च प्रतिग्रहं स्वाहा । sarvaṃ punantu māmāpo'satāṃ ca pratigrahaṃ svāhā ।
अमृतमस्य मृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि । amṛtamasya mṛtopastaraṇamasyamṛtaṃ prāṇe juhomyamāśiṣyānto'si ।
प्राणाय स्वाहा । prāṇāya svāhā ।
अपानाय स्वाहा । apānāya svāhā ।
व्यानाय स्वाहा । vyānāya svāhā ।
उदानाय स्वाहा । udānāya svāhā ।
समानाय स्वाहा । samānāya svāhā ।
इति कनिष्ठिकाङ्गुल्याङ्गुष्ठेन च प्राणे जुहोति । iti kaniṣṭhikāṅgulyāṅguṣṭhena ca prāṇe juhoti ।
अनामिकयापाने । anāmikayāpāne ।
मध्यमया व्याने । madhyamayā vyāne ।
सर्वाभिरुदाने । sarvābhirudāne ।
प्रदेशिन्या समाने । pradeśinyā samāne ।
तूष्णीमेकामेकऋषौ जुहोति । tūṣṇīmekāmekaṛṣau juhoti ।
द्वे आहवनीये । dve āhavanīye ।
एकां दक्षिणाग्नौ । ekāṃ dakṣiṇāgnau ।
एकां गार्हपत्ये । ekāṃ gārhapatye ।
एकां सर्वप्रायश्चित्तीये ॥ ekāṃ sarvaprāyaścittīye ॥
अथापिधानमस्यमृतत्वायोपस्पृश्य पुनरादाय पुनरुपस्पृशेत् । athāpidhānamasyamṛtatvāyopaspṛśya punarādāya punarupaspṛśet ।
स ते प्राणा वाऽऽपो गृहीत्वा हृदयमन्वालभ्य जपेत् । sa te prāṇā vā''po gṛhītvā hṛdayamanvālabhya japet ।
प्राणो अग्निः परमात्मा पञ्चवायुभिरावृतः । prāṇo agniḥ paramātmā pañcavāyubhirāvṛtaḥ ।
अभयं सर्वभूतेभ्यो न मे भीतिः कदाचन ॥१॥ abhayaṃ sarvabhūtebhyo na me bhītiḥ kadācana ॥1॥

इति प्रथमः खण्डः ॥१॥ iti prathamaḥ khaṇḍaḥ ॥1॥

विश्वोऽसि वैश्वानरो विश्वरूपं त्वया धार्यते जायमानम् । viśvo'si vaiśvānaro viśvarūpaṃ tvayā dhāryate jāyamānam ।
विश्वं त्वाहुतथः सर्वा यत्र ब्रह्माऽमृतोऽसि । viśvaṃ tvāhutathaḥ sarvā yatra brahmā'mṛto'si ।
महानवोऽयं पुरुषो योऽङ्गुष्ठाग्रे प्रतिष्ठितः । mahānavo'yaṃ puruṣo yo'ṅguṣṭhāgre pratiṣṭhitaḥ ।
तमद्भिः परिषिञ्चामि सोऽस्यान्ते अमृताय च । tamadbhiḥ pariṣiñcāmi so'syānte amṛtāya ca ।
अनावित्येष बाह्यात्मा ध्यायेताग्निहोत्रं जोहोमीति । anāvityeṣa bāhyātmā dhyāyetāgnihotraṃ johomīti ।
सर्वेषामेव सूनुर्भवति । sarveṣāmeva sūnurbhavati ।
अस्य यज्ञपरिवृता आहुतीर्होमयति । asya yajñaparivṛtā āhutīrhomayati ।
स्वशरीरे यज्ञं परिवर्तयामीति । svaśarīre yajñaṃ parivartayāmīti ।
चत्वारोऽग्नयस्ते किंभागधेयाः । catvāro'gnayaste kiṃbhāgadheyāḥ ।
तत्रसूर्योऽग्निर्नाम सूर्यमण्डलाकृतिः सहस्ररश्मि परिवृत एकऋषिर्भूत्वा मूर्धनि तिष्ठति । tatrasūryo'gnirnāma sūryamaṇḍalākṛtiḥ sahasraraśmi parivṛta ekaṛṣirbhūtvā mūrdhani tiṣṭhati ।
यस्मादुक्तो दर्शनाग्निर्नाम चतुराकृतिराहवनीयो भूत्वा मुखे तिष्ठति । yasmādukto darśanāgnirnāma caturākṛtirāhavanīyo bhūtvā mukhe tiṣṭhati ।
शारीरोग्निर्नाम जराप्रणुदा हविरवस्कन्दति । śārīrognirnāma jarāpraṇudā haviravaskandati ।
अर्धचन्द्राकृति र्दक्षिणाग्निर्भूत्वा हृदये तिष्ठति तत्र कोष्ठाग्निरिति । ardhacandrākṛti rdakṣiṇāgnirbhūtvā hṛdaye tiṣṭhati tatra koṣṭhāgniriti ।
कोष्ठाग्निर्नामाशितपीतलीढखादितानि सम्यग्व्यष्ट्यां श्रपयित्वा गार्हपत्यो भूत्वा नाभ्यां तिष्ठति । koṣṭhāgnirnāmāśitapītalīḍhakhāditāni samyagvyaṣṭyāṃ śrapayitvā gārhapatyo bhūtvā nābhyāṃ tiṣṭhati ।
प्रायश्चित्तयस्त्वधस्तात्तिर्यक् तिस्रो हिमांशुप्रभाभिः प्रजननकर्मा ॥ prāyaścittayastvadhastāttiryak tisro himāṃśuprabhābhiḥ prajananakarmā ॥

इति द्वितीयः खण्डः ॥२॥ iti dvitīyaḥ khaṇḍaḥ ॥2॥

अस्य शरीरयज्ञस्य यूपरशनाशोभितस्य को यजमानः । asya śarīrayajñasya yūparaśanāśobhitasya ko yajamānaḥ ।
का पत्नी । kā patnī ।
के ऋत्विजः । ke ṛtvijaḥ ।
के सदस्याः । ke sadasyāḥ ।
कानि यज्ञपात्राणि । kāni yajñapātrāṇi ।
कानि हवींषि । kāni havīṃṣi ।
का वेदिः । kā vediḥ ।
कोत्तरवेदिः । kottaravediḥ ।
को द्रोणकलशः । ko droṇakalaśaḥ ।
को रथः । ko rathaḥ ।
कः पशुः । kaḥ paśuḥ ।
कोऽध्वर्युः । ko'dhvaryuḥ ।
को होता । ko hotā ।
को ब्राह्मणाच्च्हंसी । ko brāhmaṇācchaṃsī ।
कः प्रतिप्रस्थाता । kaḥ pratiprasthātā ।
कः प्रस्तोता । kaḥ prastotā ।
को मैत्रावरुणः । ko maitrāvaruṇaḥ ।
क उद्गाता । ka udgātā ।
का धारापोता । kā dhārāpotā ।
के दर्भाः । ke darbhāḥ ।
कः स्रुवः । kaḥ sruvaḥ ।
काज्यस्थाली । kājyasthālī ।
कावाघारौ । kāvāghārau ।
कावाज्यभागौ । kāvājyabhāgau ।
केऽत्र याजाः । ke'tra yājāḥ ।
के अनुयाजाः । ke anuyājāḥ ।
केडा । keḍā ।
कः सूक्तवाकः । kaḥ sūktavākaḥ ।
कः शंयोर्वाकः । kaḥ śaṃyorvākaḥ ।
का हिंसा । kā hiṃsā ।
के पत्नीसंयाजाः । ke patnīsaṃyājāḥ ।
को यूपः । ko yūpaḥ ।
का रशना । kā raśanā ।
का इष्टयः । kā iṣṭayaḥ ।
का दक्षिणा । kā dakṣiṇā ।
किमवभृतमिति ॥ kimavabhṛtamiti ॥

इति तृतीयः खण्डः ॥३॥ iti tṛtīyaḥ khaṇḍaḥ ॥3॥

अस्य शारीरयज्ञस्य यूपरशनाशोभितस्यात्मा यजमानः । asya śārīrayajñasya yūparaśanāśobhitasyātmā yajamānaḥ ।
बुद्धिः पत्नी । buddhiḥ patnī ।
वेदा महर्त्विजः । vedā mahartvijaḥ ।
अहङ्कारोऽध्वर्युः । ahaṅkāro'dhvaryuḥ ।
चित्तं cittaṃ
होता । hotā ।
प्राणो ब्राह्मणच्छंसी । prāṇo brāhmaṇacchaṃsī ।
अपानः प्रतिप्रस्थाता । apānaḥ pratiprasthātā ।
व्यानः प्रस्तोता । vyānaḥ prastotā ।
उदान उद्गाता । udāna udgātā ।
समानो मैत्रवरुणः । samāno maitravaruṇaḥ ।
शरीरं वेदिः । śarīraṃ vediḥ ।
नासिकोत्तरवेदिः । nāsikottaravediḥ ।
मूर्धा द्रोणकलशः । mūrdhā droṇakalaśaḥ ।
पादो रथः । pādo rathaḥ ।
दक्षिणहस्तः स्रुवः । dakṣiṇahastaḥ sruvaḥ ।
सव्यहस्त आज्यस्थाली । savyahasta ājyasthālī ।
श्रोत्रे आघारौ । śrotre āghārau ।
चक्षुषी आज्यभागौ । cakṣuṣī ājyabhāgau ।
ग्रीवा धारापोता । grīvā dhārāpotā ।
तन्मात्राणि सदस्याः । tanmātrāṇi sadasyāḥ ।
महाभूतानि प्रयाजाः । mahābhūtāni prayājāḥ ।
भूतानि bhūtāni
गुणा अनुयाजाः । guṇā anuyājāḥ ।
जिह्वेडा । jihveḍā ।
दन्तोष्ठौ सूक्तवाकः । dantoṣṭhau sūktavākaḥ ।
तालुः शंयोर्वाकः । tāluḥ śaṃyorvākaḥ ।
स्मृतिर्दया क्षान्तिरहिंसा पत्नीसंयाजाः । smṛtirdayā kṣāntirahiṃsā patnīsaṃyājāḥ ।
ओङ्कारो यूपः । oṅkāro yūpaḥ ।
आशा रशना । āśā raśanā ।
मनो रथः । mano rathaḥ ।
कामः पशुः । kāmaḥ paśuḥ ।
केशा दर्भाः । keśā darbhāḥ ।
बुद्धीन्द्रियाणि यज्ञपात्राणि । buddhīndriyāṇi yajñapātrāṇi ।
कर्मेन्द्रियाणि हवींषि । karmendriyāṇi havīṃṣi ।
अहिंसा इष्टयः । ahiṃsā iṣṭayaḥ ।
त्यागो दक्षिणा । tyāgo dakṣiṇā ।
अवभृतं मरणात् । avabhṛtaṃ maraṇāt ।
सर्वा ह्यस्मिन्देवताः शरीरेऽधिसमाहिताः । sarvā hyasmindevatāḥ śarīre'dhisamāhitāḥ ।
वाराणस्यां मृतो वापि इदं वा ब्रह्म यः पठेत् । vārāṇasyāṃ mṛto vāpi idaṃ vā brahma yaḥ paṭhet ।
एकेन जन्मना जन्तुर्मोक्षं च प्राप्नुयादिति मोक्षं च प्राप्नुयादित्युपनिषत् ॥३॥ ekena janmanā janturmokṣaṃ ca prāpnuyāditi mokṣaṃ ca prāpnuyādityupaniṣat ॥3॥

ॐ सह नाववतु ॥ oṃ saha nāvavatu ॥
सह नौ भुनक्तु ॥ saha nau bhunaktu ॥
सह वीर्यं करवावहै ॥ saha vīryaṃ karavāvahai ॥
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इति प्राणाग्निहोत्रोपनिषत्समाप्ता ॥ iti prāṇāgnihotropaniṣatsamāptā ॥

Автор: Прана-агни-хотра упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Прана-агни-хотра упанишада