Парабрахма упанишада

परब्रह्मोपनिषत्
parabrahmopaniṣat

परब्रह्मोपनिषदि वेद्याखण्डसुखाकृति । parabrahmopaniṣadi vedyākhaṇḍasukhākṛti ।
परिव्राजकहृद्गेयं परितस्त्रैपदं भजे ॥ parivrājakahṛdgeyaṃ paritastraipadaṃ bhaje ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ oṃ bhadraṃ karṇebhiḥ śa‍ṛṇuyāma devāḥ ॥
भद्रं पश्येमाक्षभिर्यजत्राः ॥ bhadraṃ paśyemākṣabhiryajatrāḥ ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ॥
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ svasti na indro vṛddhaśravāḥ ॥
स्वस्ति नः पूषा विश्ववेदाः ॥ svasti naḥ pūṣā viśvavedāḥ ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ svasti nastārkṣyo ariṣṭanemiḥ ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

अथ हैनं महाशालः शौनकोऽङ्गिरसं भगवन्तं पिप्पलादं विधिवदुपसन्नः पप्रच्छ दिव्ये ब्रह्मपुरे के सम्प्रतिष्ठिता भवन्ति । atha hainaṃ mahāśālaḥ śaunako'ṅgirasaṃ bhagavantaṃ pippalādaṃ vidhivadupasannaḥ papraccha divye brahmapure ke sampratiṣṭhitā bhavanti ।
कथं सृज्यन्ते । kathaṃ sṛjyante ।
नित्यात्मन एष महिमा । nityātmana eṣa mahimā ।
विभज्य एष महिमा विभुः । vibhajya eṣa mahimā vibhuḥ ।
क एषः । ka eṣaḥ ।
तस्मै स होवाच । tasmai sa hovāca ।
एतत्सत्यं यत्प्रब्रवीमि ब्रह्मविद्यां वरिष्ठां देवेभ्यः प्राणेभ्यः । etatsatyaṃ yatprabravīmi brahmavidyāṃ variṣṭhāṃ devebhyaḥ prāṇebhyaḥ ।
परब्रह्मपुरे विरजं निष्कलं शुभमक्षरं विरजं विभाति । parabrahmapure virajaṃ niṣkalaṃ śubhamakṣaraṃ virajaṃ vibhāti ।
स नियच्छति मधुकरः श्वेव विकर्मकः । sa niyacchati madhukaraḥ śveva vikarmakaḥ ।
अकर्मा स्वामीव स्थितः । akarmā svāmīva sthitaḥ ।
कर्मतरः कर्षकवत्फलमनुभवति । karmataraḥ karṣakavatphalamanubhavati ।
कर्ममर्मज्ञाता कर्म करोति । karmamarmajñātā karma karoti ।
कर्ममर्म ज्ञात्वा कर्म कुर्यात् । karmamarma jñātvā karma kuryāt ।
को जालं विक्षिपेदेको नैनमपकर्षत्यपकर्षति । ko jālaṃ vikṣipedeko nainamapakarṣatyapakarṣati ।
प्राणदेवाश्चत्वारः । prāṇadevāścatvāraḥ ।
ताः सर्वा नाड्यः सुषुप्तश्येनाकाशवत् । tāḥ sarvā nāḍyaḥ suṣuptaśyenākāśavat ।
यथा श्येनः खमाश्रित्य याति स्वमालयं कुलायम् । yathā śyenaḥ khamāśritya yāti svamālayaṃ kulāyam ।
एवं सुषुप्तं ब्रूत । evaṃ suṣuptaṃ brūta ।
अयं च परश्च स सर्वत्र हिरण्मये परे कोशे । ayaṃ ca paraśca sa sarvatra hiraṇmaye pare kośe ।
अमृता ह्येषा नाडी त्रयं संचरति । amṛtā hyeṣā nāḍī trayaṃ saṃcarati ।
तस्य त्रिपादं ब्रह्म । tasya tripādaṃ brahma ।
एषात्रेष्य ततोऽनुतिष्ठति । eṣātreṣya tato'nutiṣṭhati ।
अन्यत्र ब्रूत । anyatra brūta ।
अयं च परं च सर्वत्र हिरण्मये कोशे । ayaṃ ca paraṃ ca sarvatra hiraṇmaye kośe ।
यथैष देवदत्तो यष्ट्या च ताड्यमानो नैवैति । yathaiṣa devadatto yaṣṭyā ca tāḍyamāno naivaiti ।
एवमिष्टापूर्तकर्मशुभाशुभैर्न लिप्यते । evamiṣṭāpūrtakarmaśubhāśubhairna lipyate ।
यथा कुमारको निष्काम आनन्दमभियाति । yathā kumārako niṣkāma ānandamabhiyāti ।
तथैष देवः स्वप्न आनन्दमभियाति वेद एव परं ज्योतिः । tathaiṣa devaḥ svapna ānandamabhiyāti veda eva paraṃ jyotiḥ ।
ज्योतिषामा ज्योतिरानन्दयत्येवमेव । jyotiṣāmā jyotirānandayatyevameva ।
तत्परं यच्चित्तं परमात्मानमानन्दयति । tatparaṃ yaccittaṃ paramātmānamānandayati ।
शुभ्रवर्णमाजायतेश्वरात् । śubhravarṇamājāyateśvarāt ।
भूयस्तेनैव मार्गेण स्वप्नस्थानं नियच्छति । bhūyastenaiva mārgeṇa svapnasthānaṃ niyacchati ।
जलूकाभाववद्यथाकाममाजायतेश्वरात् । jalūkābhāvavadyathākāmamājāyateśvarāt ।
तावतात्मानमानन्दयति । tāvatātmānamānandayati ।
परसन्धि यदपरसन्धीति । parasandhi yadaparasandhīti ।
तत्परं नापरं त्यजति । tatparaṃ nāparaṃ tyajati ।
तदैव कपालष्टकं सन्धाय य एष स्तन इवावलम्बते सेन्द्रयोनिः स वेदयोनिरिति । tadaiva kapālaṣṭakaṃ sandhāya ya eṣa stana ivāvalambate sendrayoniḥ sa vedayoniriti ।
अत्र जाग्रति । atra jāgrati ।
शुभाशुभातिरिक्तः शुभाशुभैरपि कर्मभिर्न लिप्यते । śubhāśubhātiriktaḥ śubhāśubhairapi karmabhirna lipyate ।
य एष देवोऽन्यदेवास्य सम्प्रसादोऽन्तर्याम्यसङ्गचिद्रूपः पुरुषः । ya eṣa devo'nyadevāsya samprasādo'ntaryāmyasaṅgacidrūpaḥ puruṣaḥ ।
प्रणवहंसः परं ब्रह्म । praṇavahaṃsaḥ paraṃ brahma ।
न प्राणहंसः । na prāṇahaṃsaḥ ।
प्रणवो जीवः । praṇavo jīvaḥ ।
आद्या देवता निवेदयति । ādyā devatā nivedayati ।
य एवं वेद । ya evaṃ veda ।
तत्कथं निवेदयते । tatkathaṃ nivedayate ।
जीवस्य ब्रह्मत्वमापादयति । jīvasya brahmatvamāpādayati ।
सत्त्वमथास्य पुरुषस्यान्तः sattvamathāsya puruṣasyāntaḥ
शिखोपवीतत्वं ब्राह्मणस्य । śikhopavītatvaṃ brāhmaṇasya ।
मुमुक्षोरन्तः शिखोपवीतधारणम् । mumukṣorantaḥ śikhopavītadhāraṇam ।
बहिर्लक्ष्यमाणशिखायज्ञोपवीतधारणं कर्मिणो गृहस्थस्य । bahirlakṣyamāṇaśikhāyajñopavītadhāraṇaṃ karmiṇo gṛhasthasya ।
अन्तरुपवीतलक्षणं तु बहिस्तन्तुवदव्यक्तमन्तस्तत्त्वमेलनम् । antarupavītalakṣaṇaṃ tu bahistantuvadavyaktamantastattvamelanam ।
न सन्नासन्न सदसद्भिन्नाभिन्नं न चोभयम् । न सभागं न निर्भागं न चाप्युभयरूपकम् ॥ na sannāsanna sadasadbhinnābhinnaṃ na cobhayam । na sabhāgaṃ na nirbhāgaṃ na cāpyubhayarūpakam ॥

ब्रह्मात्मैकत्वविज्ञानं हेयं मिथ्यत्वकारणादिति । brahmātmaikatvavijñānaṃ heyaṃ mithyatvakāraṇāditi ।
पञ्चपाद्ब्रह्मणो न किंचन । pañcapādbrahmaṇo na kiṃcana ।
चतुष्पादन्तर्वर्तिनोऽन्तर्जीवब्रह्मणश्चत्वारि स्थानानि । catuṣpādantarvartino'ntarjīvabrahmaṇaścatvāri sthānāni ।
नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्नसुषुप्तितुरीयावस्थाः । nābhihṛdayakaṇṭhamūrdhasu jāgratsvapnasuṣuptiturīyāvasthāḥ ।
आहवनीयगार्हपत्यदक्षिणसभ्याग्निषु । āhavanīyagārhapatyadakṣiṇasabhyāgniṣu ।
जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं चिन्मयम् । jāgarite brahmā svapne viṣṇuḥ suṣuptau rudrasturīyamakṣaraṃ cinmayam ।
तस्माच्चतुरवस्था । tasmāccaturavasthā ।
चतुरङ्गुलवेष्टनमिव षण्णवतितत्त्वानि तन्तुवद्विभज्य तदा हितं त्रिगुणीकृत्य द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं पृथग्विज्ञाय नवब्रह्माख्यनवगुणोपेतं ज्ञात्वा नवमानमितस्त्रिगुणीकृत्य सूर्येन्द्वग्निकलास्वरूपत्वेनैकीकृत्याद्यन्तरेकत्वमपि मध्ये त्रिरावृत्य ब्रह्मविष्णुमहेश्वरत्वमनुसंधायाद्यन्तमेकीकृत्य चिद्ग्रन्थावद्वैतग्रन्थिं कृत्वा नाभ्यादिब्रह्मबिलप्रमाणं पृथक् पृथक् सप्तविंशतितत्त्वसंबन्धं त्रिगुणोपेतं caturaṅgulaveṣṭanamiva ṣaṇṇavatitattvāni tantuvadvibhajya tadā hitaṃ triguṇīkṛtya dvātriṃśattattvaniṣkarṣamāpādya jñānapūtaṃ triguṇasvarūpaṃ trimūrtitvaṃ pṛthagvijñāya navabrahmākhyanavaguṇopetaṃ jñātvā navamānamitastriguṇīkṛtya sūryendvagnikalāsvarūpatvenaikīkṛtyādyantarekatvamapi madhye trirāvṛtya brahmaviṣṇumaheśvaratvamanusaṃdhāyādyantamekīkṛtya cidgranthāvadvaitagranthiṃ kṛtvā nābhyādibrahmabilapramāṇaṃ pṛthak pṛthak saptaviṃśatitattvasaṃbandhaṃ triguṇopetaṃ
त्रिमूर्तिलक्षणलक्षितमप्येकत्वमापाद्य वामांसादिदक्षिणकण्ठ्यन्तं विभाव्याद्यन्तग्रहसंमेलनमेकं ज्ञात्वा मूलमेकं सत्यं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् । trimūrtilakṣaṇalakṣitamapyekatvamāpādya vāmāṃsādidakṣiṇakaṇṭhyantaṃ vibhāvyādyantagrahasaṃmelanamekaṃ jñātvā mūlamekaṃ satyaṃ mṛṇmayaṃ vijñātaṃ syādvācārambhaṇaṃ vikāro nāmadheyaṃ mṛttiketyeva satyam ।
हंसेति वर्णद्वयेनान्तः शिखोपवीतित्वं निश्चित्य ब्राह्मणत्वं ब्रह्मध्यानार्हत्वं यतित्वमलक्षितान्तःशिखोपवीतित्वमेवं बहिर्लक्षितकर्मशिखा ज्ञानोपवीतं haṃseti varṇadvayenāntaḥ śikhopavītitvaṃ niścitya brāhmaṇatvaṃ brahmadhyānārhatvaṃ yatitvamalakṣitāntaḥśikhopavītitvamevaṃ bahirlakṣitakarmaśikhā jñānopavītaṃ
गृहस्थस्याभासब्रह्मणत्वस्य केशसमूहशिखाप्रत्यक्षकार्पासतन्तुकृतोपवीतत्वं चतुर्गुणीकृत्य चतुर्विंशतितत्त्वापादनतन्तुकृत्त्वं नवतत्त्वमेकमेव ॥ gṛhasthasyābhāsabrahmaṇatvasya keśasamūhaśikhāpratyakṣakārpāsatantukṛtopavītatvaṃ caturguṇīkṛtya caturviṃśatitattvāpādanatantukṛttvaṃ navatattvamekameva ॥
परंब्रह्म तत्प्रतिसरयोग्यत्वाद्बहुमार्गप्रवृत्तिं कल्पयन्ति । paraṃbrahma tatpratisarayogyatvādbahumārgapravṛttiṃ kalpayanti ।
सर्वेषां ब्रह्मादीनां देवर्षीणां मनुष्याणां मूर्तिरेका । sarveṣāṃ brahmādīnāṃ devarṣīṇāṃ manuṣyāṇāṃ mūrtirekā ।
ब्रह्मैकमेव । brahmaikameva ।
ब्राह्मणत्वमेकमेव । brāhmaṇatvamekameva ।
वर्णाश्रमाचारविशेषाः पृथक्पृथक् शिखावर्णाश्रमिणामेककैव । varṇāśramācāraviśeṣāḥ pṛthakpṛthak śikhāvarṇāśramiṇāmekakaiva ।
अपवर्गस्य यतेः शिखायज्ञोपवीतमूलं प्रणवमेकमेव वदन्ति । apavargasya yateḥ śikhāyajñopavītamūlaṃ praṇavamekameva vadanti ।
हंसः शिखा । haṃsaḥ śikhā ।
प्रणव उपवीतम् । praṇava upavītam ।
नादः संधानम् । nādaḥ saṃdhānam ।
एष धर्मो नेतरो धर्मः । eṣa dharmo netaro dharmaḥ ।
तत्कथमिति । tatkathamiti ।
प्रणवहंसो नादस्त्रिवृत्सूत्रं स्वहृदि चैतन्ये तिष्ठति त्रिविधं ब्रह्म । praṇavahaṃso nādastrivṛtsūtraṃ svahṛdi caitanye tiṣṭhati trividhaṃ brahma ।
तद्विद्धि प्रापञ्चिकशिखोपवीतं त्यजेत् । tadviddhi prāpañcikaśikhopavītaṃ tyajet ।
सशिखं वपनं कृत्वा बहिःसूत्रं त्यजेद्बुधः । saśikhaṃ vapanaṃ kṛtvā bahiḥsūtraṃ tyajedbudhaḥ ।
यदक्षरं परंब्रह्म तत्सूत्रमिति धारयेत् ॥ १॥ yadakṣaraṃ paraṃbrahma tatsūtramiti dhārayet ॥ 1॥

पुनर्जन्मनिवृत्यर्थं मोक्षस्याहर्निशं स्मरेत् । punarjanmanivṛtyarthaṃ mokṣasyāharniśaṃ smaret ।
सूचनात्सूत्रमित्युक्तं सूत्रं नाम परं पदम् ॥ २॥ sūcanātsūtramityuktaṃ sūtraṃ nāma paraṃ padam ॥ 2॥

तत्सूत्रं विदितं येन स मुमुक्षुः स भिक्षुकः । tatsūtraṃ viditaṃ yena sa mumukṣuḥ sa bhikṣukaḥ ।
स वेदवित्सदाचारः स विप्रः पङ्क्तिपावनः ॥ ३॥ sa vedavitsadācāraḥ sa vipraḥ paṅktipāvanaḥ ॥ 3॥

येन सर्वमिदं प्रोतं सूत्रे मणिगणा इव । yena sarvamidaṃ protaṃ sūtre maṇigaṇā iva ।
तत्सूत्रं धारयेद्योगी योगविद्ब्राह्मणो यतिः ॥ ४॥ tatsūtraṃ dhārayedyogī yogavidbrāhmaṇo yatiḥ ॥ 4॥

बहिःसूत्रं त्यजेद्विप्रो योगविज्ञानतत्परः । bahiḥsūtraṃ tyajedvipro yogavijñānatatparaḥ ।
ब्रह्मभावमिदं सूत्रं धारयेद्यः स मुक्तिभाक् ॥ ५॥ brahmabhāvamidaṃ sūtraṃ dhārayedyaḥ sa muktibhāk ॥ 5॥

नाशुचित्वं न चोच्छिष्टं तस्य सूत्रस्य धारणात् । nāśucitvaṃ na cocchiṣṭaṃ tasya sūtrasya dhāraṇāt ।
सूत्रमन्तर्गतं येषां ज्ञानयज्ञोपवीतिनाम् ॥ ६॥ sūtramantargataṃ yeṣāṃ jñānayajñopavītinām ॥ 6॥

ये तु सूत्रविदो लोके ते च यज्ञोपवीतिनः । ye tu sūtravido loke te ca yajñopavītinaḥ ।
ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपवीतिनः । jñānaśikhino jñānaniṣṭhā jñānayajñopavītinaḥ ।
ज्ञानमेव परं तेषां पवित्रं ज्ञानमीरितम् ॥ ७॥ jñānameva paraṃ teṣāṃ pavitraṃ jñānamīritam ॥ 7॥

अग्नेरिव शिखा नान्या यस्य ज्ञानमयी शिखा । agneriva śikhā nānyā yasya jñānamayī śikhā ।
स शिखीत्युच्यते विद्वान्नेतरे केशधारिणः ॥ ८॥ sa śikhītyucyate vidvānnetare keśadhāriṇaḥ ॥ 8॥

कर्मण्यधिकृतः ये तु वैदिके लौकिकेऽपि वा । karmaṇyadhikṛtaḥ ye tu vaidike laukike'pi vā ।
ब्राह्मणाभासमात्रेण जीवन्ते कुक्षिपूरकाः । brāhmaṇābhāsamātreṇa jīvante kukṣipūrakāḥ ।
व्रजन्ते निरयं ते तु पुनर्जन्मनि जन्मनि ॥ ९॥ vrajante nirayaṃ te tu punarjanmani janmani ॥ 9॥

वामांसदक्षकण्ठ्यन्तं ब्रह्मसूत्रं तु सव्यतः । vāmāṃsadakṣakaṇṭhyantaṃ brahmasūtraṃ tu savyataḥ ।
अन्तर्बहिरिवात्यर्थं तत्त्वतन्तुसमन्वितम् ॥ १०॥ antarbahirivātyarthaṃ tattvatantusamanvitam ॥ 10॥

नाभ्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः । nābhyādibrahmarandhrāntapramāṇaṃ dhārayetsudhīḥ ।
तेभिर्धार्यमिदं सूत्रं क्रियाङ्गं तन्तुनिर्मितम् ॥ ११॥ tebhirdhāryamidaṃ sūtraṃ kriyāṅgaṃ tantunirmitam ॥ 11॥

शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् । śikhā jñānamayī yasya upavītaṃ ca tanmayam ।
ब्राह्मण्यं सकलं तस्य नेतरेषां तु किंचन ॥ १२॥ brāhmaṇyaṃ sakalaṃ tasya netareṣāṃ tu kiṃcana ॥ 12॥

इदं यज्ञोपवीतं तु परमं यत्परायणम् । idaṃ yajñopavītaṃ tu paramaṃ yatparāyaṇam ।
विद्वान्यज्ञोपवीती संधारयेद्यः स मुक्तिभाक् ॥ १३॥ vidvānyajñopavītī saṃdhārayedyaḥ sa muktibhāk ॥ 13॥

बहिरन्तश्चोपवीती विप्रः संन्यस्तुमर्हति । bahirantaścopavītī vipraḥ saṃnyastumarhati ।
एकयज्ञोपवीती तु नैव संन्यस्तुमर्हति ॥ १४॥ ekayajñopavītī tu naiva saṃnyastumarhati ॥ 14॥

तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः । tasmātsarvaprayatnena mokṣāpekṣī bhavedyatiḥ ।
बहिःसूत्रं परित्यज्य स्वान्तःसूत्रं तु धारयेत् ॥ १५॥ bahiḥsūtraṃ parityajya svāntaḥsūtraṃ tu dhārayet ॥ 15॥

बहिःप्रपञ्चशिखोपवीतित्वमनादृत्य प्रणवहंसशिखोपवीतित्वमवलम्ब्य मोक्षसाधनं कुर्यादित्याह भगवाञ्छौनक इत्युपनिषत् ॥ bahiḥprapañcaśikhopavītitvamanādṛtya praṇavahaṃsaśikhopavītitvamavalambya mokṣasādhanaṃ kuryādityāha bhagavāñchaunaka ityupaniṣat ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ॥ oṃ bhadraṃ karṇebhiḥ śa‍ṛṇuyāma devāḥ ॥
भद्रं पश्येमाक्षभिर्यजत्राः ॥ bhadraṃ paśyemākṣabhiryajatrāḥ ॥
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ॥ sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ॥
व्यशेम देवहितं यदायुः ॥ vyaśema devahitaṃ yadāyuḥ ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः ॥ svasti na indro vṛddhaśravāḥ ॥
स्वस्ति नः पूषा विश्ववेदाः ॥ svasti naḥ pūṣā viśvavedāḥ ॥
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ॥ svasti nastārkṣyo ariṣṭanemiḥ ॥
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥

इति परब्रह्मोपनिषत्समाप्ता॥ iti parabrahmopaniṣatsamāptā॥

Автор: Парабрахма упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Парабрахма упанишада