Нирвана упанишада

निर्वाणोपनिषत्
nirvāṇopaniṣat

निर्वाणोपनिषद्वेद्यं निर्वाणानन्दतुन्दिलम् । nirvāṇopaniṣadvedyaṃ nirvāṇānandatundilam ।
त्रैपदानन्दसाम्राज्यं स्वमात्रमिति चिन्तयेत् ॥ traipadānandasāmrājyaṃ svamātramiti cintayet ॥

ॐ वाङ्मे मनसि प्रतिष्ठिता । oṃ vāṅme manasi pratiṣṭhitā ।
मनो मे वाचि प्रतिष्ठितम् । mano me vāci pratiṣṭhitam ।
आविरावीर्म एधि । āvirāvīrma edhi ।
वेदस्य मा आणीस्थः । vedasya mā āṇīsthaḥ ।
श्रुतं मे मा प्रहासीः । śrutaṃ me mā prahāsīḥ ।
अनेनाधीतेनाहोरात्रान्सन्दधामि । anenādhītenāhorātrānsandadhāmi ।
ऋतं वदिष्यामि । ṛtaṃ vadiṣyāmi ।
सत्यं वदिष्यामि । satyaṃ vadiṣyāmi ।
तन्मामवतु । tanmāmavatu ।
तद्वक्तारमवतु । tadvaktāramavatu ।
अवतु मामवतु वक्तारम् । avatu māmavatu vaktāram ।
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

अथ निर्वाणोपनिषदं व्याख्यास्यामः । atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ ।
परमहंसः सोऽहम् । paramahaṃsaḥ so'ham ।
परिव्राजकाः पश्चिमलिङ्गाः । parivrājakāḥ paścimaliṅgāḥ ।
मन्मथ क्षेत्रपालाः । manmatha kṣetrapālāḥ ।
गगनसिद्धान्तः अमृतकल्लोलनदी । gaganasiddhāntaḥ amṛtakallolanadī ।
अक्षयं निरञ्जनम् । akṣayaṃ nirañjanam ।
निःसंशय ऋषिः । niḥsaṃśaya ṛṣiḥ ।
निर्वाणोदेवता । nirvāṇodevatā ।
निष्कुलप्रवृत्तिः । niṣkulapravṛttiḥ ।
निष्केवलज्ञानम् । niṣkevalajñānam ।
ऊर्ध्वाम्नायः । ūrdhvāmnāyaḥ ।
निरालम्ब पीठः । nirālamba pīṭhaḥ ।
संयोगदीक्षा । saṃyogadīkṣā ।
वियोगोपदेशः । viyogopadeśaḥ ।
दीक्षासन्तोषपानं च । dīkṣāsantoṣapānaṃ ca ।
द्वादशावदित्यावलोकनम् । dvādaśāvadityāvalokanam ।
विवेकरक्षा । vivekarakṣā ।
करुणैव केलिः । karuṇaiva keliḥ ।
आनन्दमाला । ānandamālā ।
एकान्तगुहायां मुक्तासनसुखगोष्टी । ekāntaguhāyāṃ muktāsanasukhagoṣṭī ।
अकल्पितभिक्षाशी । akalpitabhikṣāśī ।
हंसाचारः । haṃsācāraḥ ।
सर्वभूतान्तर्वर्ती हंस इति प्रतिपादनम् । sarvabhūtāntarvartī haṃsa iti pratipādanam ।
धैर्यकन्था । dhairyakanthā ।
उदासीन कौपीनम् । udāsīna kaupīnam ।
विचारदण्डः । vicāradaṇḍaḥ ।
ब्रह्मावलोकयोगपट्टः ।श्रियां पादुका । brahmāvalokayogapaṭṭaḥ ।śriyāṃ pādukā ।
परेच्छाचरणम् । parecchācaraṇam ।
कुण्डलिनीबन्धः । kuṇḍalinībandhaḥ ।
परापवादमुक्तो जीवन्मुक्तः । parāpavādamukto jīvanmuktaḥ ।
शिवयोगनिद्रा च । śivayoganidrā ca ।
खेचरीमुद्रा च । khecarīmudrā ca ।
परमानन्दी । paramānandī ।
निर्गतगुणत्रयम् । nirgataguṇatrayam ।
विवेकलभ्यं मनोवागगोचरम् । vivekalabhyaṃ manovāgagocaram ।
अनित्यं जगद्यज्जनितं स्वप्नजगदभ्रगजादितुल्यम् । anityaṃ jagadyajjanitaṃ svapnajagadabhragajāditulyam ।
तथा देहादिसङ्घातं मोहगुणजालकलितं तद्रज्जुसर्पवत्कल्पितम् । tathā dehādisaṅghātaṃ mohaguṇajālakalitaṃ tadrajjusarpavatkalpitam ।
विष्णुविद्यादिशताभिधानलक्ष्यम् । viṣṇuvidyādiśatābhidhānalakṣyam ।
अङ्कुशो मार्गः । aṅkuśo mārgaḥ ।
शून्यं न सङ्केतः । śūnyaṃ na saṅketaḥ ।
परमेश्वरसत्ता । parameśvarasattā ।
सत्यसिद्धयोगो मठः । satyasiddhayogo maṭhaḥ ।
अमरपदं तत्स्वरूपम् । amarapadaṃ tatsvarūpam ।
आदिब्रह्मस्वसंवित् । ādibrahmasvasaṃvit ।
अजपा गायत्री । ajapā gāyatrī ।
विकारदण्डो ध्येयः । vikāradaṇḍo dhyeyaḥ ।
मनोनिरोधिनी कन्था । manonirodhinī kanthā ।
योगेन सदानन्दस्वरूपदर्शनम् । yogena sadānandasvarūpadarśanam ।
आनन्द भिक्षाशी । ānanda bhikṣāśī ।
महाश्मशानेऽप्यानन्दवने वासः । mahāśmaśāne'pyānandavane vāsaḥ ।
एकान्तस्थानम् । ekāntasthānam ।
आनन्दमठम् । ānandamaṭham ।
उन्मन्यवस्था । unmanyavasthā ।
शारदा चेष्टा । śāradā ceṣṭā ।
उन्मनी गतिः । unmanī gatiḥ ।
निर्मलगात्रम् । nirmalagātram ।
निरालम्बपीठम् । nirālambapīṭham ।
अमृतकल्लोलानन्दक्रिया । amṛtakallolānandakriyā ।
पाण्डरगगनम् । pāṇḍaragaganam ।
महासिद्धान्तः । mahāsiddhāntaḥ ।
शमदमादिदिव्यशक्त्याचरणे क्षेत्रपात्रपटुता । śamadamādidivyaśaktyācaraṇe kṣetrapātrapaṭutā ।
परावरसंयोगः । parāvarasaṃyogaḥ ।
तारकोपदेशाः । tārakopadeśāḥ ।
अद्वैतसदानन्दो देवता । advaitasadānando devatā ।
नियमः स्वातरिन्द्रियनिग्रहः । niyamaḥ svātarindriyanigrahaḥ ।
भयमोहशोकक्रोधत्यागस्त्यागः । bhayamohaśokakrodhatyāgastyāgaḥ ।
अनियामकत्वनिर्मलशक्तिः । aniyāmakatvanirmalaśaktiḥ ।
स्वप्रकाशब्रह्मतत्त्वे शिवशक्तिसम्पुटित प्रपञ्चच्छेदनम् । svaprakāśabrahmatattve śivaśaktisampuṭita prapañcacchedanam ।
तथा पत्राक्षाक्षिकमण्डलुः । tathā patrākṣākṣikamaṇḍaluḥ ।
भवाभावदहनम् । bhavābhāvadahanam ।
बिभ्रत्याकाशाधारम् । bibhratyākāśādhāram ।
शिवं तुरीयं यज्ञोपवीतम् । śivaṃ turīyaṃ yajñopavītam ।
तन्मया शिखा । tanmayā śikhā ।
चिन्मयं चोत्सृष्टिदण्डम् । cinmayaṃ cotsṛṣṭidaṇḍam ।
सन्तताक्षिकमण्डलुम् । santatākṣikamaṇḍalum ।
कर्मनिर्मूलनं कन्था । karmanirmūlanaṃ kanthā ।
मायाममताहङ्कारदहनम् । māyāmamatāhaṅkāradahanam ।
स्प्रशाने अनाहताङ्गी । spraśāne anāhatāṅgī ।
निस्त्रैगुण्यस्वरूपानुसन्धानं समयम् । nistraiguṇyasvarūpānusandhānaṃ samayam ।
भ्रान्तिहरणम् । bhrāntiharaṇam ।
कामादिवृत्तिदहनम् । kāmādivṛttidahanam ।
काठिन्यदृढकौपीनम् । kāṭhinyadṛḍhakaupīnam ।
चीराजिनवासः । cīrājinavāsaḥ ।
अनाहतमन्त्रः । anāhatamantraḥ ।
अक्रिययैव जुष्टम् । akriyayaiva juṣṭam ।
स्वेच्छाचारस्वस्वभावो मोक्षः परं ब्रह्म । svecchācārasvasvabhāvo mokṣaḥ paraṃ brahma ।
प्लववदाचरणम् । plavavadācaraṇam ।
ब्रह्मचर्यशान्तिसंग्रहणम् । brahmacaryaśāntisaṃgrahaṇam ।
ब्रह्मचर्याश्रमेऽधीत्य ससर्वसंविन्न्यासं संन्यासम् । brahmacaryāśrame'dhītya sasarvasaṃvinnyāsaṃ saṃnyāsam ।
अन्ते ब्रह्माखण्डाकारम् । ante brahmākhaṇḍākāram ।
नित्यं सर्वसन्देहनाशनम् । nityaṃ sarvasandehanāśanam ।
एतन्निर्वाणदर्शनम् । etannirvāṇadarśanam ।
शिष्यं पुत्रं विना न देयमित्युपनिषत् । śiṣyaṃ putraṃ vinā na deyamityupaniṣat ।
ॐ वाङ्मे मनसीति शान्तिः ॥ oṃ vāṅme manasīti śāntiḥ ॥

इति निर्वाणोपनिषत् समाप्ता । iti nirvāṇopaniṣat samāptā ।

Автор: Нирвана упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Нирвана упанишада