Нираламбана упанишада

निरालम्बोपनिषत् nirālambopaniṣat

यत्रालम्बालम्बिभावो विद्यते न कदाचन । yatrālambālambibhāvo vidyate na kadācana ।
ज्ञविज्ञसम्यग्ज्ञालम्बं निरालम्बं हरिं भजे ॥ jñavijñasamyagjñālambaṃ nirālambaṃ hariṃ bhaje ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ नमः शिवाय गुरवे सच्चिदानन्द मूर्तये । oṃ namaḥ śivāya gurave saccidānanda mūrtaye ।
निष्प्रपञ्चाय शान्ताय निरालम्बाय तेजसे ॥ niṣprapañcāya śāntāya nirālambāya tejase ॥

निरालम्बं समाश्रित्य सालम्बं विजहाति यः । nirālambaṃ samāśritya sālambaṃ vijahāti yaḥ ।
स संन्यासी च योगी च कैवल्यं पदमश्नुते । sa saṃnyāsī ca yogī ca kaivalyaṃ padamaśnute ।
एषमज्ञानजन्तूनां समस्तारिष्टशान्तये । eṣamajñānajantūnāṃ samastāriṣṭaśāntaye ।
यद्यद्बोद्धव्यमखिलं तदाशङ्क्य ब्रवीम्यहम् ॥ yadyadboddhavyamakhilaṃ tadāśaṅkya bravīmyaham ॥

किं ब्रह्म । kiṃ brahma ।
क ईश्वरः । ka īśvaraḥ ।
को जीवः । ko jīvaḥ ।
का प्रकृतिः । kā prakṛtiḥ ।
कः परमात्मा । kaḥ paramātmā ।
को ब्रह्मा । ko brahmā ।
को विष्णुः । ko viṣṇuḥ ।
को रुद्रः । ko rudraḥ ।
क इन्द्रः । ka indraḥ ।
कः शमनः । kaḥ śamanaḥ ।
कः सूर्यः । kaḥ sūryaḥ ।
कश्चन्द्रः । kaścandraḥ ।
के सुराः । ke surāḥ ।
के असुराः । ke asurāḥ ।
के पिशाचाः । ke piśācāḥ ।
के मनुष्याः । ke manuṣyāḥ ।
काः स्त्रियः । kāḥ striyaḥ ।
के पश्वादयः । ke paśvādayaḥ ।
किं स्थावरम् । kiṃ sthāvaram ।
के ब्राह्मणादयः । ke brāhmaṇādayaḥ ।
का जातिः । kā jātiḥ ।
किं कर्म । kiṃ karma ।
किमकर्म । kimakarma ।
किं ज्ञानम् । kiṃ jñānam ।
किमज्ञानम् । kimajñānam ।
किं सुखम् । kiṃ sukham ।
किं दुःखम् । kiṃ duḥkham ।
कः स्वर्गः । kaḥ svargaḥ ।
को नरकः । ko narakaḥ ।
को बन्धः । ko bandhaḥ ।
को मोक्षः । ko mokṣaḥ ।
क उपास्यः । ka upāsyaḥ ।
कः शिष्यः । kaḥ śiṣyaḥ ।
को विद्वान् । ko vidvān ।
को मूढः । ko mūḍhaḥ ।
किमासुरम् । kimāsuram ।
किं तपः । kiṃ tapaḥ ।
किं परमं पदम् । kiṃ paramaṃ padam ।
किं ग्राह्यम् । kiṃ grāhyam ।
किमग्राह्यम् । kimagrāhyam ।
कः संन्यासीत्याहशङ्क्याह ब्रह्मेति । kaḥ saṃnyāsītyāhaśaṅkyāha brahmeti ।
स होवाच महदहङ्कारपृथिव्यप्तेजोवाय्वाकाशत्वेन बृहद्रूपेणाण्डकोशेन कर्मज्ञानार्थरूपतया भासमानमद्वितीयमखिलोपाधिविनिर्मुक्तं तत्सकलशक्त्युपबृंहितमनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुणमित्यादिवाच्यमनिर्वाच्यं चैतन्यं ब्रह्म ॥ sa hovāca mahadahaṅkārapṛthivyaptejovāyvākāśatvena bṛhadrūpeṇāṇḍakośena karmajñānārtharūpatayā bhāsamānamadvitīyamakhilopādhivinirmuktaṃ tatsakalaśaktyupabṛṃhitamanādyanantaṃ śuddhaṃ śivaṃ śāntaṃ nirguṇamityādivācyamanirvācyaṃ caitanyaṃ brahma ॥
ईश्वर इति च ॥ īśvara iti ca ॥

ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान्सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वादीश्वरः ॥ brahmaiva svaśaktiṃ prakṛtyabhidheyāmāśritya lokānsṛṣṭvā praviśyāntaryāmitvena brahmādīnāṃ buddhīndriyaniyantṛtvādīśvaraḥ ॥
जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज्जीवः । jīva iti ca brahmaviṣṇvīśānendrādīnāṃ nāmarūpadvārā sthūlo'hamiti mithyādhyāsavaśājjīvaḥ ।
सोऽहमेकोऽपि देहारम्भकभेदवशाद्बहुजीवः । so'hameko'pi dehārambhakabhedavaśādbahujīvaḥ ।
प्रकृतिरिति च ब्रह्मणः सकाशान्नानाविचित्रजगन्निर्माणसामार्थ्यबुद्धिरूपा ब्रह्मशक्तिरेव प्रकृतिः । prakṛtiriti ca brahmaṇaḥ sakāśānnānāvicitrajagannirmāṇasāmārthyabuddhirūpā brahmaśaktireva prakṛtiḥ ।
परमात्मेति च देहादेः परतरत्वद्ब्राह्मैव परमात्मा स ब्रह्मा स विष्णुः स इन्द्रः स शमनः स सूर्यः स चन्द्रस्ते सुरास्ते असुरास्ते पिशाचास्ते मनुष्यास्ताः स्त्रियस्ते पश्वादयस्तत्स्थावरं ते ब्राह्मणादयः । paramātmeti ca dehādeḥ parataratvadbrāhmaiva paramātmā sa brahmā sa viṣṇuḥ sa indraḥ sa śamanaḥ sa sūryaḥ sa candraste surāste asurāste piśācāste manuṣyāstāḥ striyaste paśvādayastatsthāvaraṃ te brāhmaṇādayaḥ ।
सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चन । sarvaṃ khalvidaṃ brahma neha nānāsti kiñcana ।
जातिरिति च । jātiriti ca ।
न चर्मणो न रक्तस्य न मांसस्य न चास्थिनः । na carmaṇo na raktasya na māṃsasya na cāsthinaḥ ।
न जातिरात्मनो जातिर्व्यवहारप्रकल्पिता । na jātirātmano jātirvyavahāraprakalpitā ।
कर्मेति च क्रियमाणेन्द्रियैः कर्मण्यहं करोमीत्यध्यात्मनिष्ठतया कृतं कर्मैव कर्म । karmeti ca kriyamāṇendriyaiḥ karmaṇyahaṃ karomītyadhyātmaniṣṭhatayā kṛtaṃ karmaiva karma ।
अकर्मेति च कर्तृत्वभोक्तृत्वाद्यहङ्कारतया बन्धरूपं जन्मादिकारणं नित्यनैमित्तिकयागव्रततपोदानादिषु फलाभिसन्धानं akarmeti ca kartṛtvabhoktṛtvādyahaṅkāratayā bandharūpaṃ janmādikāraṇaṃ nityanaimittikayāgavratatapodānādiṣu phalābhisandhānaṃ
यत्तदकर्म । yattadakarma ।
ज्ञानमिति च देहेन्द्रियनिग्रहसद्गुरूपासनश्रवणमनननिदिध्यासनैर्यद्यदृग्दृश्यस्वरूपं सर्वान्तरस्थं सर्वसमं घटपटादिपदार्थ- jñānamiti ca dehendriyanigrahasadgurūpāsanaśravaṇamanananididhyāsanairyadyadṛgdṛśyasvarūpaṃ sarvāntarasthaṃ sarvasamaṃ ghaṭapaṭādipadārtha-
मिवाविकारं विकारेषु चैतन्यं विना किञ्चिन्नास्तीति साक्षात्कारानुभवो ज्ञानम् । mivāvikāraṃ vikāreṣu caitanyaṃ vinā kiñcinnāstīti sākṣātkārānubhavo jñānam ।
अज्ञानमिति च रज्जौ सर्पभ्रान्तिरिवाद्वितीये सर्वानुस्यूते सर्वमये ब्रह्मणि देवतिर्यङ्नरस्थावरस्त्रीपुरुषवर्णाश्रमबन्धमोक्षोपाधिनानात्मभेदकल्पित ज्ञानमज्ञानम् । ajñānamiti ca rajjau sarpabhrāntirivādvitīye sarvānusyūte sarvamaye brahmaṇi devatiryaṅnarasthāvarastrīpuruṣavarṇāśramabandhamokṣopādhinānātmabhedakalpita jñānamajñānam ।
सुखमिति च सच्चिदानन्दस्वरूपं ज्ञात्वानन्दरूपा या स्थितिः सैव सुखम् । sukhamiti ca saccidānandasvarūpaṃ jñātvānandarūpā yā sthitiḥ saiva sukham ।
दुःखमिति अनात्मरूपः विषयसङ्कल्प एव दुःखम् । duḥkhamiti anātmarūpaḥ viṣayasaṅkalpa eva duḥkham ।
स्वर्ग इति च सत्संसर्गः स्वर्गः । svarga iti ca satsaṃsargaḥ svargaḥ ।
नरक इति च असत्संसारविषयजनसंसर्ग एव नरकः । naraka iti ca asatsaṃsāraviṣayajanasaṃsarga eva narakaḥ ।
बन्ध इति च अनाद्यविद्यावासनया जातोऽहमित्यादिसङ्कल्पो बन्धः । bandha iti ca anādyavidyāvāsanayā jāto'hamityādisaṅkalpo bandhaḥ ।
पितृमातृसहोदरदारापत्यगृहारामक्षेत्रममता संसारावरणसङ्कल्पो बन्धः । pitṛmātṛsahodaradārāpatyagṛhārāmakṣetramamatā saṃsārāvaraṇasaṅkalpo bandhaḥ ।
कर्तृत्वाद्यहङ्कारसङ्कल्पो बन्धः । kartṛtvādyahaṅkārasaṅkalpo bandhaḥ ।
अणिमाद्यष्टैश्वर्याशासिद्धसङ्कल्पो बन्धः । aṇimādyaṣṭaiśvaryāśāsiddhasaṅkalpo bandhaḥ ।
देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः । devamanuṣyādyupāsanākāmasaṅkalpo bandhaḥ ।
यमाद्यष्टाङ्गयोगसङ्कल्पो बन्धः । yamādyaṣṭāṅgayogasaṅkalpo bandhaḥ ।
वर्णाश्रमधर्मकर्मसङ्कल्पो बन्धः । varṇāśramadharmakarmasaṅkalpo bandhaḥ ।
आज्ञाभयसंशयात्मगुणसङ्कल्पो बन्धः । ājñābhayasaṃśayātmaguṇasaṅkalpo bandhaḥ ।
यागव्रततपोदानविधिविधानज्ञानसम्भवो बन्धः । yāgavratatapodānavidhividhānajñānasambhavo bandhaḥ ।
केवलमोक्षापेक्षासङ्कल्पो बन्धः । kevalamokṣāpekṣāsaṅkalpo bandhaḥ ।
सङ्कल्पमात्रसंभवो बन्धः । saṅkalpamātrasaṃbhavo bandhaḥ ।
मोक्ष इति च नित्यानित्यवस्तुविचारादनित्यसंसारसुखदुःखविषयसमस्तक्षेत्रममताबन्धक्षयो मोक्षः । mokṣa iti ca nityānityavastuvicārādanityasaṃsārasukhaduḥkhaviṣayasamastakṣetramamatābandhakṣayo mokṣaḥ ।
उपास्य इति च सर्वशरीरस्थचैतन्यब्रह्मप्रापको गुरुरुपास्यः । upāsya iti ca sarvaśarīrasthacaitanyabrahmaprāpako gururupāsyaḥ ।
शिष्य इति च विद्याध्वस्तप्रपञ्चावगाहितज्ञानावशिष्टं ब्रह्मैव शिष्यः । śiṣya iti ca vidyādhvastaprapañcāvagāhitajñānāvaśiṣṭaṃ brahmaiva śiṣyaḥ ।
विद्वानिति च सर्वान्तरस्थस्वसंविद्रूपविद्विद्वान् । vidvāniti ca sarvāntarasthasvasaṃvidrūpavidvidvān ।
मूढ इति च कर्तृत्वाद्यहङ्कारभावारूढो मूढः । mūḍha iti ca kartṛtvādyahaṅkārabhāvārūḍho mūḍhaḥ ।
आसुरमिति च ब्रह्मविष्ण्वीशानेन्द्रादीनामैश्वर्यकामनया निरशनजपाग्निहोत्रादिष्वन्तरात्मानं सन्तापयति चात्युग्ररागद्वेषविहिंसा दम्भाद्यपेक्षितं तप आसुरम् । āsuramiti ca brahmaviṣṇvīśānendrādīnāmaiśvaryakāmanayā niraśanajapāgnihotrādiṣvantarātmānaṃ santāpayati cātyugrarāgadveṣavihiṃsā dambhādyapekṣitaṃ tapa āsuram ।
तप इति च ब्रह्म सत्यं जगन्मिथ्येत्यपरोक्षज्ञानाग्निना ब्रह्माद्यैश्वर्याशासिद्धसङ्कल्पबीजसन्तापं तपः । tapa iti ca brahma satyaṃ jaganmithyetyaparokṣajñānāgninā brahmādyaiśvaryāśāsiddhasaṅkalpabījasantāpaṃ tapaḥ ।
परमं पदमिति च प्राणेन्द्रियाद्यन्तःकरणगुणादेः परतरं सच्चिदानन्दमयं नित्यमुक्तब्रह्मस्थानं परमं पदम् । paramaṃ padamiti ca prāṇendriyādyantaḥkaraṇaguṇādeḥ parataraṃ saccidānandamayaṃ nityamuktabrahmasthānaṃ paramaṃ padam ।
ग्राह्यमिति च देशकालवस्तुपरिच्छेदराहित्यचिन्मात्रस्वरूपं ग्राह्यम् । grāhyamiti ca deśakālavastuparicchedarāhityacinmātrasvarūpaṃ grāhyam ।
अग्राह्यमिति च स्वस्वरूपव्यतिरिक्तमायामयबुद्धीन्द्रियगोचरजगत्सत्यत्वचिन्तनमग्राह्यम् । agrāhyamiti ca svasvarūpavyatiriktamāyāmayabuddhīndriyagocarajagatsatyatvacintanamagrāhyam ।
संन्यासीति च सर्वधर्मान्परित्यज्य निर्ममो निरहङ्कारो भूत्वा ब्रह्मेष्टं शरणमुपगम्य तत्त्वमसि अहं ब्रह्मास्मि सर्वं खल्विदं ब्रह्म नेह नानास्ति किञ्चनेत्यादिमहावाक्यार्थानुभवज्ञानाद्ब्रह्मैवाहमस्मीति निश्चित्य निर्विकल्पसमाधिना स्वतन्त्रो यतिश्चरति स संन्यासी स मुक्तः स पूज्यः स योगी स परमहंसः सोऽवधूतः स ब्राह्मण इति । saṃnyāsīti ca sarvadharmānparityajya nirmamo nirahaṅkāro bhūtvā brahmeṣṭaṃ śaraṇamupagamya tattvamasi ahaṃ brahmāsmi sarvaṃ khalvidaṃ brahma neha nānāsti kiñcanetyādimahāvākyārthānubhavajñānādbrahmaivāhamasmīti niścitya nirvikalpasamādhinā svatantro yatiścarati sa saṃnyāsī sa muktaḥ sa pūjyaḥ sa yogī sa paramahaṃsaḥ so'vadhūtaḥ sa brāhmaṇa iti ।
इदं निरालम्बोपनिषदं योऽधीते गुर्वनुग्रहतः सोऽग्निपूतो भवति स वायुपूतो भवति न स पुनरावर्तते न स पुनरावर्तते पुनर्नाभिजायते पुनर्नाभिजायत इत्युपनिषत् ॥ idaṃ nirālambopaniṣadaṃ yo'dhīte gurvanugrahataḥ so'gnipūto bhavati sa vāyupūto bhavati na sa punarāvartate na sa punarāvartate punarnābhijāyate punarnābhijāyata ityupaniṣat ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । oṃ pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
इति निरालम्बोपनिषत्समाप्ता ॥ iti nirālambopaniṣatsamāptā ॥

Автор: Нираламбана упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Нираламбана упанишада