Нараяна упанишада
नारायणोपनिषत् nārāyaṇopaniṣat
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु । tejasvināvadhītamastu ।
मा विद्विषावहै ॥ mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
प्रथमः खण्डः नारायणात् सर्वचेतनाचेतनजन्म prathamaḥ khaṇḍaḥ nārāyaṇāt sarvacetanācetanajanma
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । oṃ atha puruṣo ha vai nārāyaṇo'kāmayata prajāḥ sṛjeyeti ।
नारायणात्प्राणो जायते । nārāyaṇātprāṇo jāyate ।
मनः सर्वेन्द्रियाणि च । manaḥ sarvendriyāṇi ca ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । khaṃ vāyurjyotirāpaḥ pṛthivī viśvasya dhāriṇī ।
नारायणाद् ब्रह्मा जायते । nārāyaṇād brahmā jāyate ।
नारायणाद् रुद्रो जायते । nārāyaṇād rudro jāyate ।
नारायणादिन्द्रो जायते । nārāyaṇādindro jāyate ।
नारायणात्प्रजापतयः प्रजायन्ते । nārāyaṇātprajāpatayaḥ prajāyante ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दाꣳसि । nārāyaṇāddvādaśādityā rudrā vasavaḥ sarvāṇi ca chandāꣳsi ।
नारायणादेव समुत्पद्यन्ते । nārāyaṇādeva samutpadyante ।
नारायणे प्रवर्तन्ते । nārāyaṇe pravartante ।
नारायणे प्रलीयन्ते ॥ nārāyaṇe pralīyante ॥
द्वितीयः खण्डः नारायणस्य सर्वात्मत्वम् dvitīyaḥ khaṇḍaḥ nārāyaṇasya sarvātmatvam
ॐ । oṃ ।
अथ नित्यो नारायणः । atha nityo nārāyaṇaḥ ।
ब्रह्मा नारायणः । brahmā nārāyaṇaḥ ।
शिवश्च नारायणः । śivaśca nārāyaṇaḥ ।
शक्रश्च नारायणः । śakraśca nārāyaṇaḥ ।
द्यावापृथिव्यौ च नारायणः । dyāvāpṛthivyau ca nārāyaṇaḥ ।
नारायणः । nārāyaṇaḥ ।
दिशश्च नारायणः । diśaśca nārāyaṇaḥ ।
ऊर्ध्वंश्च नारायणः । ūrdhvaṃśca nārāyaṇaḥ ।
अधश्च नारायणः । adhaśca nārāyaṇaḥ ।
अन्तर्बहिश्च नारायणः । antarbahiśca nārāyaṇaḥ ।
नारायण एवेदम् सर्वम् । nārāyaṇa evedam sarvam ।
यद्भूतं यच्च भव्यम् । yadbhūtaṃ yacca bhavyam ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः । niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva eko nārāyaṇaḥ ।
न द्वितीयोऽस्ति कश्चित् । na dvitīyo'sti kaścit ।
य एवं वेद । ya evaṃ veda ।
स विष्णुरेव भवति स विष्णुरेव भवति ॥ sa viṣṇureva bhavati sa viṣṇureva bhavati ॥
तृतीयः खण्डः नारायणाष्टाक्षरमन्त्रः tṛtīyaḥ khaṇḍaḥ nārāyaṇāṣṭākṣaramantraḥ
ओमित्यग्रे व्याहरेत् । omityagre vyāharet ।
नमो इति पश्चात् । namo iti paścāt ।
नारायणायेत्युपरिष्टात् । nārāyaṇāyetyupariṣṭāt ।
ओमित्येकाक्षरम् । omityekākṣaram ।
नमो इति द्वे अक्षरे । namo iti dve akṣare ।
नारायणायेति पञ्चाक्षराणि । nārāyaṇāyeti pañcākṣarāṇi ।
एतद्वै नारायणस्याष्टाक्षरं पदम् । etadvai nārāyaṇasyāṣṭākṣaraṃ padam ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति । yo ha vai nārāyaṇasyāṣṭākṣaraṃ padamadhyeti ।
अनपब्रुवस्सर्वमायुरेति । anapabruvassarvamāyureti ।
विन्दते प्राजापत्यम् रायस्पोषं गौपत्यम् । vindate prājāpatyam rāyaspoṣaṃ gaupatyam ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । tato'mṛtatvamaśnute tato'mṛtatvamaśnuta iti ।
य एवं वेद ॥ ya evaṃ veda ॥
एतत्सामवेदशिरोऽधीते । ओं नमो नारायणाय etatsāmavedaśiro'dhīte । oṃ namo nārāyaṇāya
चतुर्थः खण्डः नारायणप्रणवः caturthaḥ khaṇḍaḥ nārāyaṇapraṇavaḥ
प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपम् । pratyagānandaṃ brahmapuruṣaṃ praṇavasvarūpam ।
अकार उकार मकार इति । akāra ukāra makāra iti ।
तानेकधा समभरत्तदेतदोमिति । tānekadhā samabharattadetadomiti ।
यमुक्त्वा मुच्यते योगी जन्मसंसारबन्धनात् । yamuktvā mucyate yogī janmasaṃsārabandhanāt ।
ॐ नमो नारायणायेति मन्त्रोपासकः । oṃ namo nārāyaṇāyeti mantropāsakaḥ ।
वैकुण्ठभुवनलोकं गमिष्यति । vaikuṇṭhabhuvanalokaṃ gamiṣyati ।
तदिदं परं पुण्डरीकं विज्ञानघनम् । tadidaṃ paraṃ puṇḍarīkaṃ vijñānaghanam ।
तस्मात्तटिदाभमात्रम् । tasmāttaṭidābhamātram ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनः । var ब्रह्मण्यो मधुसूदनओम् brahmaṇyo devakīputro brahmaṇyo madhusūdanaḥ । var brahmaṇyo madhusūdanaom
ब्रह्मण्यः पुण्डरीकाक्षो ब्रह्मण्यो विष्णुरच्यत इति । brahmaṇyaḥ puṇḍarīkākṣo brahmaṇyo viṣṇuracyata iti ।
सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परं ब्रह्म ॐ । sarvabhūtasthamekaṃ nārāyaṇam । kāraṇarūpamakāra paraṃ brahma oṃ ।
एतदथर्वशिरोयोऽधीते ॥ etadatharvaśiroyo'dhīte ॥
विद्याऽध्ययनफलम् । vidyā'dhyayanaphalam ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
सायमधीयानो दिवसकृतं पापं नाशयति । sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
तत्सायंप्रातरधीयानोऽपापो भवति । tatsāyaṃprātaradhīyāno'pāpo bhavati ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः (मध्यन्दिन) पञ्चमहापातकोपपातकात् प्रमुच्यते । mādhyandinamādityābhimukho'dhīyānaḥ (madhyandina) pañcamahāpātakopapātakāt pramucyate ।
सर्व वेद पारायण पुण्यं लभते । sarva veda pārāyaṇa puṇyaṃ labhate ।
नारायणसायुज्यमवाप्नोति नारायण सायुज्यमवाप्नोति । nārāyaṇasāyujyamavāpnoti nārāyaṇa sāyujyamavāpnoti ।
य एवं वेद । ya evaṃ veda ।
इत्युपनिषत् ॥ ityupaniṣat ॥

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ lakṣmīkāntaṃ kamalanayanaṃ yogibhirdhyānagamyaṃ vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham ॥

Комментарии: Нараяна упанишада