Махавакья упанишада

महावाक्योपनिषत्
mahāvākyopaniṣat

यन्महावाक्यसिद्धान्तमहाविद्याकलेवरम् । yanmahāvākyasiddhāntamahāvidyākalevaram ।
विकलेवरकैवल्यं रामचन्द्रपदं भजे ॥ vikalevarakaivalyaṃ rāmacandrapadaṃ bhaje ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ vyaśema devahitaṃ yadāyuḥ ॥

ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

हरिः ॐ ॥ hariḥ oṃ ॥

अथ होवाच भगवान्ब्रह्मापरोक्षानुभवपरोपनिषदं व्याख्यास्यामः । atha hovāca bhagavānbrahmāparokṣānubhavaparopaniṣadaṃ vyākhyāsyāmaḥ ।
गुह्याद्गुह्यपरमेषा न प्राकृतायोपदेष्टव्या । guhyādguhyaparameṣā na prākṛtāyopadeṣṭavyā ।
सात्विकायान्तर्मुखाय परिशुश्रूषवे । sātvikāyāntarmukhāya pariśuśrūṣave ।
अथ संसृतिबन्धमोक्षयोर्विद्याविद्ये चक्षुषी उपसंहृत्य विज्ञायाविद्यालोकाण्डस्तमोदृक् । atha saṃsṛtibandhamokṣayorvidyāvidye cakṣuṣī upasaṃhṛtya vijñāyāvidyālokāṇḍastamodṛk ।
तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् । tamo hi śārīraprapañcamābrahmasthāvarāntamanantākhilājāṇḍabhūtam ।
निखिलनिगमोदितसकामकर्मव्यवहारो लोकः । nikhilanigamoditasakāmakarmavyavahāro lokaḥ ।
नैषोऽन्धकारोऽयमात्मा ।विद्या हि काण्डान्तरादित्यो ज्योतिर्मण्डलं ग्राह्यं नापरम् । naiṣo'ndhakāro'yamātmā ।vidyā hi kāṇḍāntarādityo jyotirmaṇḍalaṃ grāhyaṃ nāparam ।
असावादित्यो ब्रह्मेत्यजपयोपहितं हंसः सोऽहम् । asāvādityo brahmetyajapayopahitaṃ haṃsaḥ so'ham ।
प्राणापानाभ्यां प्रतिलोमानुलोमाभ्यां समुपलभ्यैवं सा चिरं लब्ध्वा त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सच्चिदानन्दः परमात्माविर्भवति । prāṇāpānābhyāṃ pratilomānulomābhyāṃ samupalabhyaivaṃ sā ciraṃ labdhvā trivṛdātmani brahmaṇyabhidhyāyamāne saccidānandaḥ paramātmāvirbhavati ।
सहस्रभानुमच्छुरितापूरितत्वादलिप्या पारावारपूर इव । sahasrabhānumacchuritāpūritatvādalipyā pārāvārapūra iva ।
नैषा समाधिः । naiṣā samādhiḥ ।
नैषा योगसिद्धिः । naiṣā yogasiddhiḥ ।
नैषा मनोलयः । naiṣā manolayaḥ ।
ब्रह्मैक्यं तत् । brahmaikyaṃ tat ।
आदित्यवर्णं तमसस्तु पारे । ādityavarṇaṃ tamasastu pāre ।
सर्वाणि रूपाणि विचित्य धीरः । sarvāṇi rūpāṇi vicitya dhīraḥ ।
नामानि कृत्वाऽभिवदन्यदास्ते । nāmāni kṛtvā'bhivadanyadāste ।
धाता पुरस्ताद्यमुदाजहार । dhātā purastādyamudājahāra ।
शक्रः प्रविद्वान्प्रदिशश्चतस्रः । śakraḥ pravidvānpradiśaścatasraḥ ।
तमेव विद्वानमृत इह भवति । tameva vidvānamṛta iha bhavati ।
नान्यः पन्था अयनाय विद्यते । nānyaḥ panthā ayanāya vidyate ।
यज्ञेन यज्ञमयजन्त देवाः । yajñena yajñamayajanta devāḥ ।
तानि धर्माणि प्रथमान्यासन् । tāni dharmāṇi prathamānyāsan ।
ते ह नाकं महिमानः सचन्ते । te ha nākaṃ mahimānaḥ sacante ।
यत्र पूर्वे साध्याः सन्ति देवाः । yatra pūrve sādhyāḥ santi devāḥ ।
सोऽहमर्कः परं ज्योतिरर्कज्योतिरहं शिवः । so'hamarkaḥ paraṃ jyotirarkajyotirahaṃ śivaḥ ।
आत्मज्योतिरहं शुक्रः सर्वज्योतिरसावदोम् । ātmajyotirahaṃ śukraḥ sarvajyotirasāvadom ।
य एतदथर्वशिरोऽधीते । ya etadatharvaśiro'dhīte ।
प्रातरधीयानो रात्रिकृतं prātaradhīyāno rātrikṛtaṃ
पापं नाशयति । pāpaṃ nāśayati ।
सायमधीयानो दिवसकृतं पापं नाशयति । sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । tatsāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।
मध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चमहापातकोपपातकात्प्रमुच्यते । madhyandinamādityābhimukho'dhīyānaḥ pañcamahāpātakopapātakātpramucyate ।
सर्ववेदपारायणपुण्यं लभते । sarvavedapārāyaṇapuṇyaṃ labhate ।
श्रीमहाविष्णुसायुज्यमवाप्नोतीत्युपनिषत् ॥ śrīmahāviṣṇusāyujyamavāpnotītyupaniṣat ॥

ॐ भद्रं कर्णेभिः श्रुणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । oṃ bhadraṃ karṇebhiḥ śruṇuyāma devāḥ bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः व्यशेम देवहितं यदायुः ॥ sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ vyaśema devahitaṃ yadāyuḥ ॥

ॐ शान्तिः शान्तिः शान्तिः । oṃ śāntiḥ śāntiḥ śāntiḥ ।

हरिः ॐ तत्सत् hariḥ oṃ tatsat

इति महावाक्योपनिषत्समाप्ता ॥
iti mahāvākyopaniṣatsamāptā ॥

Автор: Махавакья упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Махавакья упанишада