Кундика упанишада
कुण्डिकोपनिषत्
kuṇḍikopaniṣat
कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः । kuṇḍikopaniṣatkhyātaparivrājakasaṃtatiḥ ।
यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये ॥ yatra viśrāntimagamattadrāmapadamāśraye ॥
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च ॥ oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca ॥
सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ mestu tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ hariḥ oṃ
ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः । brahmacaryāśrame kṣīṇe guruśuśrūṣaṇe rataḥ ।
वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी ॥ १॥ vedānadhītyānujñāta ucyate guruṇāśramī ॥ 1॥
दारमाहृत्य सदृशमग्निमाधाय शक्तितः । dāramāhṛtya sadṛśamagnimādhāya śaktitaḥ ।
ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् ॥ २॥ brāhmīmiṣṭiṃ yajettāsāmahorātreṇa nirvapet ॥ 2॥
संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य च । saṃvibhajya sutānarthe grāmyakāmānvisṛjya ca ।
संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् ॥ ३॥ saṃcaranvanamārgeṇa śucau deśe paribhraman ॥ 3॥
वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः । vāyubhakṣo'mbubhakṣo vā vihitaiḥ kandamūlakaiḥ ।
स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् ॥ ४॥ svaśarīre samāpyātha pṛthivyāṃ nāśru pātayet ॥ 4॥
सह तेनैव पुरुषः कथं संन्यस्त उच्यते । saha tenaiva puruṣaḥ kathaṃ saṃnyasta ucyate ।
सनामधेयो यस्मिंस्तु कथं संन्यस्त उच्यते ॥ ५॥ sanāmadheyo yasmiṃstu kathaṃ saṃnyasta ucyate ॥ 5॥
तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् । tasmātphalaviśuddhāṅgī saṃnyāsaṃ saṃhitātmanām ।
अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते ॥ ६॥ agnivarṇaṃ viniṣkramya vānaprasthaṃ prapadyate ॥ 6॥
लोकवद्भार्ययासक्तो वनं गच्छति संयतः । lokavadbhāryayāsakto vanaṃ gacchati saṃyataḥ ।
संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा ॥ ७॥ saṃtyaktvā saṃsṛtisukhamanutiṣṭhati kiṃ mudhā ॥ 7॥
किंवा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्छ्रितान् । kiṃvā duḥkhamanusmṛtya bhogāṃstyajati cocchritān ।
गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च ॥ ८॥ garbhavāsabhayādbhītaḥ śītoṣṇābhyāṃ tathaiva ca ॥ 8॥
गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति । guhyaṃ praveṣṭumicchāmi paraṃ padamanāmayamiti ।
संन्यस्याग्निमपुनरावर्तनं यन्मृत्युर्जायमावहमिति ॥ saṃnyasyāgnimapunarāvartanaṃ yanmṛtyurjāyamāvahamiti ॥
अथाध्यात्ममन्त्राञ्जपेत् । athādhyātmamantrāñjapet ।
दीक्षामुपेयात्काषायवासाः । dīkṣāmupeyātkāṣāyavāsāḥ ।
कक्षोपस्थलोमानि वर्जयेत् । kakṣopasthalomāni varjayet ।
ऊर्ध्वबाहुर्विमुक्तमार्गो भवति । ūrdhvabāhurvimuktamārgo bhavati ।
अनिकेतश्चरेभिक्षाशी । aniketaścarebhikṣāśī ।
निदिध्यासनं दध्यात् । nididhyāsanaṃ dadhyāt ।
पवित्रं धारयेज्जन्तुसंरक्षणार्थम् । pavitraṃ dhārayejjantusaṃrakṣaṇārtham ।
तदपि श्लोका भवन्ति । tadapi ślokā bhavanti ।
कुण्डिकां चमकं शिक्यं त्रिविष्टपमुपानहौ । kuṇḍikāṃ camakaṃ śikyaṃ triviṣṭapamupānahau ।
शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा ॥ ९॥ śītopaghātinīṃ kanthāṃ kaupīnācchādanaṃ tathā ॥ 9॥
पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च । pavitraṃ snānaśāṭīṃ ca uttarāsaṅgameva ca ।
अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः ॥ १०॥ ato'tiriktaṃ yatkiṃcitsarvaṃ tadvarjayedyatiḥ ॥ 10॥
नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः । nadīpulinaśāyī syāddevāgāreṣu bāhyataḥ ।
नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् ॥ ११॥ nātyarthaṃ sukhaduḥkhābhyāṃ śarīramupatāpayet ॥ 11॥
स्नानं पानं तथा शौचमद्भिः पूताभिराचिरेत् । snānaṃ pānaṃ tathā śaucamadbhiḥ pūtābhirāciret ।
स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् ॥ १२॥ stūyamāno na tuṣyeta nindito na śapetparān ॥ 12॥
भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् । bhikṣādivaidalaṃ pātraṃ snānadravyamavāritam ।
एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा ॥ १३॥ evaṃ vṛttimupāsīno yatendriyo japetsadā ॥ 13॥
विश्वायमनुसंयोगं मनसा भावयेत्सुधीः । viśvāyamanusaṃyogaṃ manasā bhāvayetsudhīḥ ।
आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भ्यः पृथिवी । ākāśādvāyurvāyorjyotirjyotiṣa āpo'dbhyaḥ pṛthivī ।
एषां भूतानां ब्रह्म प्रपद्ये । eṣāṃ bhūtānāṃ brahma prapadye ।
अजरममरमक्षरमव्ययं प्रपद्ये । ajaramamaramakṣaramavyayaṃ prapadye ।
मय्यखण्डसुखांभोधौ बहुधा विश्ववीचयः । mayyakhaṇḍasukhāṃbhodhau bahudhā viśvavīcayaḥ ।
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥ १४॥ utpadyante vilīyante māyāmārutavibhramāt ॥ 14॥
न मे देहेन संबन्धो मेघेनेव विहायसः । na me dehena saṃbandho megheneva vihāyasaḥ ।
अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु ॥ १५॥ ataḥ kuto me taddharmā jāgratsvapnasuṣuptiṣu ॥ 15॥
आकाशवत्कल्पविदूरगोहमादित्यवद्भास्यविलक्षणोऽहम् । ākāśavatkalpavidūragohamādityavadbhāsyavilakṣaṇo'ham ।
अहार्यवन्नित्यविनिश्चलोऽहमम्भोधिवत्पारविवर्जितोऽहम् ॥ १६॥ ahāryavannityaviniścalo'hamambhodhivatpāravivarjito'ham ॥ 16॥
नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः । nārāyaṇo'haṃ narakāntako'haṃ purāntako'haṃ puruṣo'hamīśaḥ ।
अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥ १७॥ akhaṇḍabodho'hamaśeṣasākṣī nirīśvaro'haṃ nirahaṃ ca nirmamaḥ ॥ 17॥
तदभ्यासेन प्राणापानौ संयम्य तत्र श्लोका भवन्ति ॥ tadabhyāsena prāṇāpānau saṃyamya tatra ślokā bhavanti ॥
वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् । vṛṣaṇāpānayormadhye pāṇī āsthāya saṃśrayet ।
संदश्य शनकैर्जिह्वां यवमात्रे विनिर्गताम् ॥ १८॥ saṃdaśya śanakairjihvāṃ yavamātre vinirgatām ॥ 18॥
माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि । māṣamātrāṃ tathā dṛṣṭiṃ śrotre sthāpya tathā bhuvi ।
श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् ॥ १९॥ śravaṇe nāsike gandhā yataḥ svaṃ na ca saṃśrayet ॥ 19॥
अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् । atha śaivapadaṃ yatra tadbrahma brahma tatparam ।
तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मनाम् ॥ २०॥ tadabhyāsena labhyeta pūrvajanmārjitātmanām ॥ 20॥
संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते । saṃbhūtairvāyusaṃśrāvairhṛdayaṃ tapa ucyate ।
ऊर्ध्वं प्रपद्यते देहाद्भित्त्वा मूर्धानमव्ययम् ॥ २१॥ ūrdhvaṃ prapadyate dehādbhittvā mūrdhānamavyayam ॥ 21॥
स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् । svadehasya tu mūrdhānaṃ ye prāpya paramāṃ gatim ।
भूयस्ते न निवर्तन्ते परावरविदो जनाः ॥ २२॥ bhūyaste na nivartante parāvaravido janāḥ ॥ 22॥
न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् । na sākṣiṇaṃ sākṣyadharmāḥ saṃspṛśanti vilakṣaṇam ।
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ॥ २३॥ avikāramudāsīnaṃ gṛhadharmāḥ pradīpavat ॥ 23॥
जले वापि स्थले वापि लुठत्वेष जडात्मकः । jale vāpi sthale vāpi luṭhatveṣa jaḍātmakaḥ ।
नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा ॥ २४॥ nāhaṃ vilipye taddharmairghaṭadharmairnabho yathā ॥ 24॥
निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः । niṣkriyo'smyavikāro'smi niṣkalo'smi nirākṛtiḥ ।
निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः ॥ २५॥ nirvikalpo'smi nityo'smi nirālambo'smi nirdvayaḥ ॥ 25॥
सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः । sarvātmako'haṃ sarvo'haṃ sarvātīto'hamadvayaḥ ।
केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः ॥ २६॥ kevalākhaṇḍabodho'haṃ svānando'haṃ nirantaraḥ ॥ 26॥
स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् । svameva sarvataḥ paśyanmanyamānaḥ svamadvayam ।
स्वानन्दमनुभुञ्जानो निर्विकल्पो भवाम्यहम् ॥ २७॥ svānandamanubhuñjāno nirvikalpo bhavāmyaham ॥ 27॥
गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा । gacchaṃstiṣṭhannupaviśañchayāno vānyathāpi vā ।
यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः ॥ २८॥ इत्युपनिषत् ॥ yathecchayā vasedvidvānātmārāmaḥ sadā muniḥ ॥ 28॥
ityupaniṣat ॥

हरिः ॐ तत्सत् ॥ hariḥ oṃ tatsat ॥
इति कुण्डिकोपनिषत्समाप्ता ॥ iti kuṇḍikopaniṣatsamāptā ॥

Нет комментариев