Ганапати упанишада
गणपत्युपनिषत् gaṇapatyupaniṣat
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् । yaṃ natvā munayaḥ sarve nirvighnaṃ yānti tatpadam ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥ gaṇeśopaniṣadvedyaṃ tadbrahmaivāsmi sarvagam ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devāḥ ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । sthirairaṅgaistuṣṭuvāꣳ sastanūbhiḥ ।
व्यशेम देवहितं यदायुः । vyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । svasti nastārkṣyo ariṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु ॥ svasti no bṛhaspatirdadhātu ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
हरिः ॐ नमस्ते गणपतये । hariḥ oṃ namaste gaṇapataye ।
त्वमेव प्रत्यक्षं तत्त्वमसि । tvameva pratyakṣaṃ tattvamasi ।
त्वमेव केवलं कर्तासि । tvameva kevalaṃ kartāsi ।
त्वमेव केवलं धर्तासि । tvameva kevalaṃ dhartāsi ।
त्वमेव केवलं हर्तासि । tvameva kevalaṃ hartāsi ।
त्वमेव सर्वं खल्विदं ब्रह्मासि । tvameva sarvaṃ khalvidaṃ brahmāsi ।
त्वं साक्षादात्मासि नित्यम् ॥१॥ tvaṃ sākṣādātmāsi nityam ॥1॥
ऋतं वच्मि । ṛtaṃ vacmi ।
सत्यं वच्मि । satyaṃ vacmi ।
अव त्वं माम् । ava tvaṃ mām ।
अव वक्तारम् । ava vaktāram ।
अव श्रोतारम् ॥२॥ ava śrotāram ॥2॥
अव दातारम् । ava dātāram ।
अव धातारम् । ava dhātāram ।
अवानूचानमव शिष्यम् । avānūcānamava śiṣyam ।
अव पश्चात्तात् । ava paścāttāt ।
अव पुरस्तात् । ava purastāt ।
अवोत्तरात्तात् । avottarāttāt ।
अव दक्षिणात्तात् । ava dakṣiṇāttāt ।
अव चोर्ध्वात्तात् । ava cordhvāttāt ।
अवाधरात्तात् । avādharāttāt ।
सर्वतो मां पाहि पाहि समन्तात् ॥३॥ sarvato māṃ pāhi pāhi samantāt ॥3॥
त्वं वाङ्मयस्त्वं चिन्मयः । tvaṃ vāṅmayastvaṃ cinmayaḥ ।
त्वमानन्दमयस्त्वं ब्रह्ममयः । tvamānandamayastvaṃ brahmamayaḥ ।
त्वं सच्चिदानन्दाद्वितीयोऽसि । tvaṃ saccidānandādvitīyo'si ।
त्वं प्रत्यक्षं ब्रह्मासि । tvaṃ pratyakṣaṃ brahmāsi ।
त्वं ज्ञानमयो विज्ञानमयोऽसि ॥४॥ tvaṃ jñānamayo vijñānamayo'si ॥4॥
सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति । sarvaṃ jagadidaṃ tvatto jāyate ।sarvaṃ jagadidaṃ tvattastiṣṭhati ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति । sarvaṃ jagadidaṃ tvayi layameṣyati । sarvaṃ jagadidaṃ tvayi pratyeti ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।त्वं चत्वारि वाक्पदानि ॥५॥ tvaṃ bhūmirāpo'nalo'nilo nabhaḥ ।tvaṃ catvāri vākpadāni ॥5॥
त्वं गुणत्रयातीतः । tvaṃ guṇatrayātītaḥ ।
त्वं अवस्थात्रयातीतः । tvaṃ avasthātrayātītaḥ ।
त्वं देहत्रयातीतः । tvaṃ dehatrayātītaḥ ।
त्वं कालत्रयातीतः । tvaṃ kālatrayātītaḥ ।
त्वं मूलाधारस्थितोऽसि नित्यम् । tvaṃ mūlādhārasthito'si nityam ।
त्वं शक्तित्रयात्मकः । tvaṃ śaktitrayātmakaḥ ।
त्वां योगिनो ध्यायन्ति नित्यम् । tvāṃ yogino dhyāyanti nityam ।
त्वं ब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥६॥ tvaṃ brahmā tvaṃ viṣṇustvaṃ rudrastvamindrastvamagnistvaṃ vāyustvaṃ sūryastvaṃ candramāstvaṃ brahma bhūrbhuvaḥ svarom ॥6॥
गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । gaṇādiṃ pūrvamuccārya varṇādiṃstadanantaram ।
अनुस्वारः परतरः । anusvāraḥ parataraḥ ।
अर्धेन्दुलसितम् । ardhendulasitam ।
तारेण ऋद्धम् । tāreṇa ṛddham ।
एतत्तव मनुस्वरूपम् । etattava manusvarūpam ।
गकारः पूर्वरूपम् । gakāraḥ pūrvarūpam ।
अकारो मध्यमरूपम् । akāro madhyamarūpam ।
अनुस्वारश्चान्त्यरूपम् । anusvāraścāntyarūpam ।
बिन्दुरुत्तररूपम् आदः सन्धानम् । binduruttararūpam ādaḥ sandhānam ।
संहिता सन्धिः । saṃhitā sandhiḥ ।
सैषा गणेशविद्या । saiṣā gaṇeśavidyā ।
गणक ऋषिः । gaṇaka ṛṣiḥ ।
निचृद्गायत्री छन्दः । nicṛdgāyatrī chandaḥ ।
श्रीमहागणपतिर्देवता । śrīmahāgaṇapatirdevatā ।
ॐ गं गणपतये नमः ॥७॥ oṃ gaṃ gaṇapataye namaḥ ॥7॥
एकदन्ताय विद्महे वक्रतुण्डाय धीमहि । ekadantāya vidmahe vakratuṇḍāya dhīmahi ।
तन्नो दन्तिः प्रचोदयात् ॥८॥ tanno dantiḥ pracodayāt ॥8॥
एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । ekadantaṃ caturhastaṃ pāśamaṅkuśadhāriṇam ।
रदं च वरदं हस्तैर्बिभ्राणं मूषकध्वजम् । radaṃ ca varadaṃ hastairbibhrāṇaṃ mūṣakadhvajam ।
रक्तं लम्बोदरं शूर्पकर्णकं रक्तवाससम् । raktaṃ lambodaraṃ śūrpakarṇakaṃ raktavāsasam ।
रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् । raktagandhānuliptāṅgaṃ raktapuṣpaiḥ supūjitam ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । bhaktānukampinaṃ devaṃ jagatkāraṇamacyutam ।
आविर्भूतं च सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । āvirbhūtaṃ ca sṛṣṭyādau prakṛteḥ puruṣātparam ।
एवं ध्यायति यो नित्यं स योगी योगिनां वरः ॥९॥ evaṃ dhyāyati yo nityaṃ sa yogī yogināṃ varaḥ ॥9॥
नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये नमः ॥१०॥ namo vrātapataye namo gaṇapataye namaḥ pramathapataye namaste'stu lambodarāya ekadantāya vighnavināśine śivasutāya śrīvaradamūrtaye namaḥ ॥10॥
एतदथर्वशीर्षं योऽधीते । etadatharvaśīrṣaṃ yo'dhīte ।
स ब्रह्मभूयाय कल्पते । sa brahmabhūyāya kalpate ।
स सर्वविघ्नैर्न बाध्यते । sa sarvavighnairna bādhyate ।
स सर्वतः सुखमेधते । sa sarvataḥ sukhamedhate ।
स पञ्चमहापापात् प्रमुच्यते । sa pañcamahāpāpāt pramucyate ।
सायमधीयानो दिवसकृतं पापं नाशयति । sāyamadhīyāno divasakṛtaṃ pāpaṃ nāśayati ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । prātaradhīyāno rātrikṛtaṃ pāpaṃ nāśayati ।
सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । sāyaṃ prātaḥ prayuñjānaḥ pāpo'pāpo bhavati ।
धर्मार्थकाममोक्षं च विन्दति । dharmārthakāmamokṣaṃ ca vindati ।
इदमथर्वशीर्षमशिष्याय न देयम् । idamatharvaśīrṣamaśiṣyāya na deyam ।
यो यदि मोहाद् दास्यति । yo yadi mohād dāsyati ।
स पापीयान् भवति । sa pāpīyān bhavati ।
सहस्रावर्तनाद्यं यं काममधीते । sahasrāvartanādyaṃ yaṃ kāmamadhīte ।
तं तमनेन साधयेत् ॥११॥ taṃ tamanena sādhayet ॥11॥
अनेन गणपतिमभिषिञ्चति । anena gaṇapatimabhiṣiñcati ।
स वाग्मी भवति । sa vāgmī bhavati ।
चतुर्थ्यामनश्नन् जपति । caturthyāmanaśnan japati ।
स विद्यावान् भवति । sa vidyāvān bhavati ।
इत्यथर्वणवाक्यम् । ityatharvaṇavākyam ।
ब्रह्माद्याचरणं विद्यान्न बिभेति कदाचनेति ॥१२॥ brahmādyācaraṇaṃ vidyānna bibheti kadācaneti ॥12॥
यो दूर्वाङ्कुरैर्यजति । yo dūrvāṅkurairyajati ।
स वैश्रवणोपमो भवति । sa vaiśravaṇopamo bhavati ।
यो लाजैर्यजति । yo lājairyajati ।
स यशोवान् भवति । sa yaśovān bhavati ।
स मेधावान् भवति । sa medhāvān bhavati ।
यो मोदकसहस्रेण यजति स वाञ्छितफलमवाप्नोति । yo modakasahasreṇa yajati sa vāñchitaphalamavāpnoti ।
यः साज्य समिद्भिर्यजति । yaḥ sājya samidbhiryajati ।
स सर्वं लभते स सर्वं लभते ॥१३॥ sa sarvaṃ labhate sa sarvaṃ labhate ॥13॥
अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा । aṣṭau brāhmaṇān samyag grāhayitvā ।
सूर्यवर्चस्वी भवति । sūryavarcasvī bhavati ।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा । sūryagrahe mahānadyāṃ pratimāsannidhau vā japtvā ।
सिद्धमन्त्रो भवति । siddhamantro bhavati ।
महाविघ्नात् प्रमुच्यते । mahāvighnāt pramucyate ।
महादोषात् प्रमुच्यते । mahādoṣāt pramucyate ।
महापापात् प्रमुच्यते । mahāpāpāt pramucyate ।
महाप्रत्यवायात् प्रमुच्यते । mahāpratyavāyāt pramucyate ।
स सर्वविद्भवति स सर्वविद्भवति । sa sarvavidbhavati sa sarvavidbhavati ।
य एवं वेद । ya evaṃ veda ।
इत्युपनिषत् ॥१४॥ ityupaniṣat ॥14॥

इति गणपत्युपनिषत्समाप्ता ॥ iti gaṇapatyupaniṣatsamāptā ॥

Нет комментариев