Джабала упанишада
जाबालोपनिषत्
jābālopaniṣat
भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवाँ सस्तनूभिर्व्यशेम देवहितं यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।।
ॐ शान्तिः शान्तिः शान्तिः ।।
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhiryajatrāḥ sthirairaṅgaistuṣṭuvām̐ sastanūbhirvyaśema devahitaṃ yadāyuḥ svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ svasti nastārkṣyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ।।
oṃ śāntiḥ śāntiḥ śāntiḥ ।।
बृहस्पतिरुवाच याज्ञवल्क्यं यदनु कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अविमुक्तं वै कुरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
तस्माद्यत्र क्वचन गच्छति तदेव मन्येत तदविमुक्तमेव ।
इदं वैकरुक्षेत्रं देवानां देवयजनं सर्वेषां भूतानां ब्रह्मसदनम् ।
अत्र हि जन्तोः प्राणेषूत्क्रममाणेषु रुद्रस्तारकं ब्रह्म व्याचष्टे येनासावमृतीभूत्वा मोक्षीभवति तस्मादविमुक्तमेव निषेवेत अविमुक्तं न विमुञ्चेदेवमेवैतद्याज्ञवल्क्यः |
इति प्रथमः खण्डः ।।
bṛhaspatiruvāca yājñavalkyaṃ yadanu kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam ।
avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam ।
tasmādyatra kvacana gacchati tadeva manyeta tadavimuktameva ।
idaṃ vaikarukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam ।
atra hi jantoḥ prāṇeṣūtkramamāṇeṣu rudrastārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūtvā mokṣībhavati tasmādavimuktameva niṣeveta avimuktaṃ na vimuñcedevamevaitadyājñavalkyaḥ ।।
iti prathamaḥ khaṇḍaḥ ।।
अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति ।
स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽन- न्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति ।
सोऽविमुक्तः कस्मिन्प्रतिष्ठित इति वरणायां नास्यां च मध्ये प्रतिष्ठित इति ।
का वै वरणा का च नासीतिसर्वानिन्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवति सर्वानिन्द्रियकृतान्पापान्नाशयतीति तेन नासी भवतीति ।
कतमच्चास्य स्थानं भवतीति ।
भ्रुवोर्घाणस्य च यः संधिः स एष द्यौर्लोकस्य परस्य च संधिर्भवतीति ।
एतद्वैसंधिं संध्यां ब्रह्मविद उपासत इति सोऽविमुक्त उपास्य इति ।
सोऽविमुक्तं ज्ञानमाचष्टे यो वै तदेतदेवं वेदेति ।।
इति जाबालोपनिषत्सु द्वितीयः खण्डः ।।
atha hainamatriḥ papraccha yājñavalkyaṃ ya eṣo'nanto'vyakta ātmā taṃ kathamahaṃ vijānīyāmiti ।
sa hovāca yājñavalkyaḥ so'vimukta upāsyo ya eṣo'na- nto'vyakta ātmā so'vimukte pratiṣṭhita iti ।
so'vimuktaḥ kasminpratiṣṭhita iti varaṇāyāṃ nāsyāṃ ca madhye pratiṣṭhita iti ।
kā vai varaṇā kā ca nāsītisarvānindriyakṛtāndoṣānvārayatīti tena varaṇā bhavati sarvānindriyakṛtānpāpānnāśayatīti tena nāsī bhavatīti ।
katamaccāsya sthānaṃ bhavatīti ।
bhruvorghāṇasya ca yaḥ saṃdhiḥ sa eṣa dyaurlokasya parasya ca saṃdhirbhavatīti ।
etadvaisaṃdhiṃ saṃdhyāṃ brahmavida upāsata iti so'vimukta upāsya iti ।
so'vimuktaṃ jñānamācaṣṭe yo vai tadetadevaṃ vedeti ।।
iti jābālopaniṣatsu dvitīyaḥ khaṇḍaḥ ।।
अथ हैनं ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं ब्रूहीति ।
स होवाचयाज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्येतैर्ह वा मृतोभवतीति ।
एवमेवतद्याज्ञवल्क्यः ।।
इति जाबालोपनिषत्सु तृतीयः खण्डः ।।
atha hainaṃ brahmacāriṇa ūcuḥ kiṃ jāpyenāmṛtatvaṃ brūhīti ।
sa hovācayājñavalkyaḥ śatarudriyeṇetyetāni ha vā amṛtanāmadheyānyetairha vā mṛtobhavatīti ।
evamevatadyājñavalkyaḥ ।।
iti jābālopaniṣatsu tṛtīyaḥ khaṇḍaḥ ।।
अथ ह जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन् संन्यासमनु- ब्रूहीति ।
स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् गृही भूत्वावनी भवेत् वनी भूत्वा प्रव्रजेत् ।
यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गुहाद्वावनाद्वा ।
अथ पुनरवती वा व्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्निको वा यदहरेव विरजेत्तदहरेव प्रव्रजेत् ।
तद्धैके प्राजापत्यामेवौष्टं कुर्वन्ति ।
तदु तथा न कुर्यादाग्नेयीमेव कुर्यात् ।
अग्निर्ह वै प्राणः प्राणमेवैतया करोतिपश्चात्त्रैधातवीयामेव कुर्यात् । एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति ।
अयं ते योनिर्ऋत्वियो यतो जातो अरोचथाः ।
तं जानन्नग्न आरोहाथा नोवर्धय रयिम् इत्यनेन मन्त्रेणाग्निमाजिघ्रेत् |
एष वा अग्नेर्योनिर्यः प्राणः प्राणगच्छ स्वाहेत्येवमेवैतदाह । ग्रामादग्निमाहृत्य पूर्ववदग्निमाघ्रापयेत् ।
यद्यग्निंन विन्देदप्सु जुहुयात् ।
आपो वै सर्वा देवताः ॐ सर्वाभ्यो देवताभ्योजुहोमि स्वाहेति हुत्वा समुद्धत्य प्राश्नीयात्साज्यं हविरनामयं मोक्षमन्त्रस्त्रय्येवंविन्देत् ।
तद्बह्मेतदुपासितव्यम् ।
एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः ।।
इति जाबालोपनिषत्सु चतुर्थः खण्डः ।।
atha ha janako ha vaideho yājñavalkyamupasametyovāca bhagavan saṃnyāsamanu- brūhīti ।
sa hovāca yājñavalkyo brahmacaryaṃ samāpya gṛhī bhavet gṛhī bhūtvāvanī bhavet vanī bhūtvā pravrajet ।
yadi vetarathā brahmacaryādeva pravrajedguhādvāvanādvā ।
atha punaravatī vā vratī vā snātako vā'snātako vā utsannāgniranagniko vā yadahareva virajettadahareva pravrajet ।
taddhaike prājāpatyāmevauṣṭaṃ kurvanti ।
tadu tathā na kuryādāgneyīmeva kuryāt ।
agnirha vai prāṇaḥ prāṇamevaitayā karotipaścāttraidhātavīyāmeva kuryāt । etayaiva trayo dhātavo yaduta sattvaṃ rajastama iti ।
ayaṃ te yonirṛtviyo yato jāto arocathāḥ ।
taṃ jānannagna ārohāthā novardhaya rayim ityanena mantreṇāgnimājighret |
eṣa vā agneryoniryaḥ prāṇaḥ prāṇagaccha svāhetyevamevaitadāha । grāmādagnimāhṛtya pūrvavadagnimāghrāpayet ।
yadyagniṃna vindedapsu juhuyāt ।
āpo vai sarvā devatāḥ oṃ sarvābhyo devatābhyojuhomi svāheti hutvā samuddhatya prāśnīyātsājyaṃ haviranāmayaṃ mokṣamantrastrayyevaṃvindet ।
tadbahmetadupāsitavyam ।
evamevaitadbhagavanniti vai yājñavalkyaḥ ।।
iti jābālopaniṣatsu caturthaḥ khaṇḍaḥ ।।
अथ हैनमत्रिः पप्रच्छ ।
वीती कथं ब्राह्मण इति ।
स होवाच याज्ञवल्क्य इदमेवास्य तद्यज्ञोपवीतं यत्रात्मा प्राश्याचम्यायं विधिः परिव्राजकानाम् ।
वीराध्वाने वाऽनाशके वाऽपां प्रवेशे वाऽग्निप्रवेशे वा महाप्रस्थाने वाऽथ परिव्राड् विवर्णवासा मुण्डोऽपरिग्रहः शचिरद्रोही भैक्षाणो ब्रह्मभूयाय भवति ।
यद्यातुरः स्यान्मनसा वाचावा संन्यसेत् ।
एष पन्था ब्रह्मणा हानुवित्तस्तेनैति संन्यासी ब्रह्म विदित्येवमेवैष भगवन्निति वै याज्ञवल्क्यः ।।
इति जाबालोपनिषत्सु पञ्चमः खण्डः ।।
atha hainamatriḥ papraccha ।
vītī kathaṃ brāhmaṇa iti ।
sa hovāca yājñavalkya idamevāsya tadyajñopavītaṃ yatrātmā prāśyācamyāyaṃ vidhiḥ parivrājakānām ।
vīrādhvāne vā'nāśake vā'pāṃ praveśe vā'gnipraveśe vā mahāprasthāne vā'tha parivrāḍ vivarṇavāsā muṇḍo'parigrahaḥ śaciradrohī bhaikṣāṇo brahmabhūyāya bhavati ।
yadyāturaḥ syānmanasā vācāvā saṃnyaset ।
eṣa panthā brahmaṇā hānuvittastenaiti saṃnyāsī brahma vidityevamevaiṣa bhagavanniti vai yājñavalkyaḥ ।।
iti jābālopaniṣatsu pañcamaḥ khaṇḍaḥ ।।
तत्र परमहंसा नाम संवर्तकारुणिश्वेतकेतुदुर्वासऋभुनिदाघजडभरतदत्तात्रेपरैवतकप्रभृतयोऽव्यक्तलिङ्गा अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तस्त्रिदण्डं कमण्डलुं शिक्यं पात्रं जलपवित्रं शिखां यज्ञोपवीतं चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मानमन्विच्छेत् यथा जातरूपधरो निर्द्वन्द्वो निष्परिग्रहस्तत्तत्त्वब्रह्ममार्गे सम्यक्संपन्नः शद्धमानसः प्राणसंधारणार्थं यथोक्तकालेविमुक्तो भैक्षमाचरन्नुदरपात्रेण लाभालाभौ समौ भूत्वा शून्यागा- रदेवगृहतृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रनदीपुलिनगिरिकुहरकन्दरकोटरनिर्झरस्थण्डिलेष्वनिकेतवास्यप्रयत्नो निर्ममः शक्लध्यानपरायणोऽध्यात्मनिष्ठोऽशभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहं सो नाम स परमहंसोनामेति ।।
इति जाबालोपनिषत्सु षष्ठः खण्डः ।।

इत्यथर्ववेदे जाबालोपनिषत्समाप्ता ।।
ityatharvavede jābālopaniṣatsamāptā ।।

Комментарии: Джабала упанишада