Бхавана упанишада
भावनोपनिषत् bhāvanopaniṣat
स्वाविद्यापदतत्कार्यं श्रीचक्रोपरि भासुरम् । svāvidyāpadatatkāryaṃ śrīcakropari bhāsuram ।
बिन्दुरूपशिवाकारं रामचन्द्रपदं भजे ॥ bindurūpaśivākāraṃ rāmacandrapadaṃ bhaje ॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा । oṃ bhadraṃ karṇebhiḥ śaṛṇuyāma devā ।
भद्रं पश्येमाक्षभिर्यजत्राः । bhadraṃ paśyemākṣabhiryajatrāḥ ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः । sthirairaṅgaistuṣṭuvāꣳsastanūbhiḥ ।
व्यशेम देवहितं यदायुः । vyaśema devahitaṃ yadāyuḥ ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । svasti na indro vṛddhaśravāḥ ।
स्वस्ति नः पूषा विश्ववेदाः । svasti naḥ pūṣā viśvavedāḥ ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः । svasti nastārkṣyo'riṣṭanemiḥ ।
स्वस्ति नो बृहस्पतिर्दधातु । svasti no bṛhaspatirdadhātu ।
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
अथ भावनोपनिषत् । atha bhāvanopaniṣat ।
हरिः ॐ । hariḥ oṃ ।
आत्मानमखण्डमण्डलाकारमवृत्य सकलब्रह्माण्डमण्डलं स्वप्रकाशं ध्यायेत् । ātmānamakhaṇḍamaṇḍalākāramavṛtya sakalabrahmāṇḍamaṇḍalaṃ svaprakāśaṃ dhyāyet ।
ॐ श्रीगुरुः सर्वकारणभूता शक्तिः । oṃ śrīguruḥ sarvakāraṇabhūtā śaktiḥ ।
तेन नवरन्ध्ररूपो देहः । tena navarandhrarūpo dehaḥ ।
नवशक्तिरूपं श्रीचक्रम् । navaśaktirūpaṃ śrīcakram ।
वाराही पितृरूपा । vārāhī pitṛrūpā ।
कुरुकुल्ला बलिदेवता माता । kurukullā balidevatā mātā ।
पुरुषार्थाः सागराः । puruṣārthāḥ sāgarāḥ ।
देहो नवरत्नद्वीपः । deho navaratnadvīpaḥ ।
त्वगादिसप्तधातुभिरनेकैः संयुक्ताः सङ्कल्पाः कल्पतरवः । tvagādisaptadhātubhiranekaiḥ saṃyuktāḥ saṅkalpāḥ kalpataravaḥ ।
तेजः कल्पकोद्यानम् । tejaḥ kalpakodyānam ।
रसनया भाव्यमाना मधुराम्लतिक्तकटुकषायलवणभेदाः षड्रसाः षडृतवः क्रियाशक्तिः पीठम् । rasanayā bhāvyamānā madhurāmlatiktakaṭukaṣāyalavaṇabhedāḥ ṣaḍrasāḥ ṣaḍṛtavaḥ kriyāśaktiḥ pīṭham ।
कुण्डलिनी ज्ञानशक्तिर्गृहम् । kuṇḍalinī jñānaśaktirgṛham ।
इच्छाशक्तिर्महात्रिपुरसुन्दरी । icchāśaktirmahātripurasundarī ।
ज्ञाता होता ज्ञानमग्निः (ज्ञानमर्घ्यम्) ज्ञेयं हविः । jñātā hotā jñānamagniḥ (jñānamarghyam) jñeyaṃ haviḥ ।
ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् । jñātṛjñānajñeyānāmabhedabhāvanaṃ śrīcakrapūjanam ।
नियतिसहिताः शृङ्गारादयो नव रसा अणिमादयः । niyatisahitāḥ śaṛṅgārādayo nava rasā aṇimādayaḥ ।
कामक्रोधलोभमोहमदमात्सर्यपुण्यपापमया ब्राह्म्याद्यष्टशक्तयः । kāmakrodhalobhamohamadamātsaryapuṇyapāpamayā brāhmyādyaṣṭaśaktayaḥ ।
(आधरनवकम् मुद्राशक्तयः ।) (ādharanavakam mudrāśaktayaḥ ।)
पृथिव्यप्तेजोवाय्वाकाशश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थमनोविकाराः (कामाकर्षिण्यादि) षोडश शक्तयः । pṛthivyaptejovāyvākāśaśrotratvakcakṣurjihvāghrāṇavākpāṇipādapāyūpasthamanovikārāḥ (kāmākarṣiṇyādi) ṣoḍaśa śaktayaḥ ।
वचनादानगमनविसर्गानन्दहानो(पादानो)पेक्षा(ख्य)भुद्धयोऽनङ्गकुसुमादिशक्तयोऽष्टौ । vacanādānagamanavisargānandahāno(pādāno)pekṣā(khya)bhuddhayo'naṅgakusumādiśaktayo'ṣṭau ।
अलम्बुसा कुहूर्विश्वोदरी वरुणा हस्तिजिह्वा यशस्वत्यश्विनी गान्धारी पूषा शङ्खिनी सरस्वतीडा पिङ्गला सुषुम्ना चेति चतुर्दश alambusā kuhūrviśvodarī varuṇā hastijihvā yaśasvatyaśvinī gāndhārī pūṣā śaṅkhinī sarasvatīḍā piṅgalā suṣumnā ceti caturdaśa
नाड्यः । nāḍyaḥ ।
सर्वसंक्षोभिण्यादिचतुर्दशारगा देवताः । sarvasaṃkṣobhiṇyādicaturdaśāragā devatāḥ ।
प्राणापानव्यानोदानसमाननागकूर्मकृकरदेवदत्तधनञ्जया इति दश वायवः । prāṇāpānavyānodānasamānanāgakūrmakṛkaradevadattadhanañjayā iti daśa vāyavaḥ ।
सर्वसिद्धिप्रदा देव्यो बहिर्दशारगा देवताः । sarvasiddhipradā devyo bahirdaśāragā devatāḥ ।
एतद्वायुदशकसंसर्गोपाधिभेधेन रेचकपूरकशोषकदाहप्लावका (रेचकः पाचकः शोषको दाहकः प्लावका इति) प्राणमुख्यत्वेन पञ्चधोऽस्ति (जठराग्निर्भवति) । etadvāyudaśakasaṃsargopādhibhedhena recakapūrakaśoṣakadāhaplāvakā (recakaḥ pācakaḥ śoṣako dāhakaḥ plāvakā iti) prāṇamukhyatvena pañcadho'sti (jaṭharāgnirbhavati) ।
क्षारको दारकः क्षोभको मोहको जृम्भक इत्यपालनमुख्यत्वेन पञ्चविधोऽस्ति । kṣārako dārakaḥ kṣobhako mohako jṛmbhaka ityapālanamukhyatvena pañcavidho'sti ।
तेन मनुष्याणां मोहको दाहको (नागप्राधान्येन पञ्चबिधास्ते मनुष्याणां देहगा) भक्ष्यभोज्यशोष्यलेह्यपेयात्मकं चतुर्विधमन्नं (पञ्चविधमन्नं) पाचयति। एता दश वह्निकलाः सर्वज्ञत्वाद्यन्तर्दशारगा देवताः । tena manuṣyāṇāṃ mohako dāhako (nāgaprādhānyena pañcabidhāste manuṣyāṇāṃ dehagā) bhakṣyabhojyaśoṣyalehyapeyātmakaṃ caturvidhamannaṃ (pañcavidhamannaṃ) pācayati। etā daśa vahnikalāḥ sarvajñatvādyantardaśāragā devatāḥ ।
शीतोष्णसुखदुःखेच्छासत्त्वरजस्तमोगुणा वशिन्यादिशक्तयोऽष्तौ । śītoṣṇasukhaduḥkhecchāsattvarajastamoguṇā vaśinyādiśaktayo'ṣtau ।
शब्दस्पर्शरूपरसगन्धाः पञ्चतन्मात्राः पञ्चपुष्पबाणा मन इक्षुधनुः । śabdasparśarūparasagandhāḥ pañcatanmātrāḥ pañcapuṣpabāṇā mana ikṣudhanuḥ ।
वश्यो वाणो रागः पाशः । vaśyo vāṇo rāgaḥ pāśaḥ ।
द्वेषोऽङ्कुशः । dveṣo'ṅkuśaḥ ।
अव्यक्तमहत्तत्त्वमहदहङ्कार इति कामेश्वरी-वज्रेश्वरीभगमालिन्योऽन्तस्त्रिकोणाग्रगा देवताः । avyaktamahattattvamahadahaṅkāra iti kāmeśvarī-vajreśvarībhagamālinyo'ntastrikoṇāgragā devatāḥ ।
(निरुपाधिकसंविदेव कामेश्वर । (nirupādhikasaṃvideva kāmeśvara ।
सदानन्दपूर्ण स्वात्मेव परदेवता ललिता । sadānandapūrṇa svātmeva paradevatā lalitā ।
लौहित्यमेतस्य सर्वस्य विमर्श । lauhityametasya sarvasya vimarśa ।
अनन्यचित्तत्वेन च सिद्धिः । ananyacittatvena ca siddhiḥ ।
भावनायाः क्रिया उपचरः । bhāvanāyāḥ kriyā upacaraḥ ।
अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यमुपासितव्यमिति विकल्पानामात्मनि विलापनम् होमः । ahaṃ tvamasti nāsti kartavyamakartavyamupāsitavyamiti vikalpānāmātmani vilāpanam homaḥ ।
भवनाविषयाणामभेदभवना तर्पणम् ।) bhavanāviṣayāṇāmabhedabhavanā tarpaṇam ।)
पञ्चदशतिथिरूपेण कालस्य परिणामावलोकनस्थितिः पञ्चदशनित्याः । pañcadaśatithirūpeṇa kālasya pariṇāmāvalokanasthitiḥ pañcadaśanityāḥ ।
श्रद्धानुरूपा धीर्देवता । śraddhānurūpā dhīrdevatā ।
तयोः कामेश्वरी सदानन्दघना परिपूर्णस्वात्मैक्यरूपा देवता । tayoḥ kāmeśvarī sadānandaghanā paripūrṇasvātmaikyarūpā devatā ।
सलिलमिति लौहित्यकारणं सत्त्वम् । salilamiti lauhityakāraṇaṃ sattvam ।
कर्तव्यमकर्तव्यमिति भावनायुक्त उपचारः । kartavyamakartavyamiti bhāvanāyukta upacāraḥ ।
अस्ति नास्तीति कर्तव्यतानूपचारः । asti nāstīti kartavyatānūpacāraḥ ।
बाह्याभ्यन्तःकरणानां रूपग्रहणयोग्यतास्त्त्वित्यावाहनम् । bāhyābhyantaḥkaraṇānāṃ rūpagrahaṇayogyatāsttvityāvāhanam ।
तस्य बाह्याभ्यन्तःकरणानामेकरूपविषयग्रहणमासनम् । tasya bāhyābhyantaḥkaraṇānāmekarūpaviṣayagrahaṇamāsanam ।
रक्तशुक्लपदैकीकरणं पाद्यम् । raktaśuklapadaikīkaraṇaṃ pādyam ।
उज्ज्वलदामोदानन्दासनदानमर्घ्यम् । ujjvaladāmodānandāsanadānamarghyam ।
स्वच्छं स्वतःसिद्धमित्याचमनीयम् । svacchaṃ svataḥsiddhamityācamanīyam ।
चिच्चन्द्रमयीति सर्वाङ्गस्रवणं स्नानम् । ciccandramayīti sarvāṅgasravaṇaṃ snānam ।
चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् । cidagnisvarūpaparamānandaśaktisphuraṇaṃ vastram ।
प्रत्येकं सप्तविंशतिधा भिन्नत्वेनेच्छाज्ञानक्रियात्मकब्रह्मग्रन्थिमद्रसतन्तुब्रह्मनाडी ब्रह्मसूत्रम् । pratyekaṃ saptaviṃśatidhā bhinnatvenecchājñānakriyātmakabrahmagranthimadrasatantubrahmanāḍī brahmasūtram ।
स्वव्यतिरिक्तवस्तुसङ्गरहितस्मरणां विभूषणम् । svavyatiriktavastusaṅgarahitasmaraṇāṃ vibhūṣaṇam ।
सच्चित्सुखपरिपूर्णतास्मरणं गन्धः । saccitsukhaparipūrṇatāsmaraṇaṃ gandhaḥ ।
समस्तविषयाणां मनसः स्थैर्येणानुसंधानं कुसुमम् । samastaviṣayāṇāṃ manasaḥ sthairyeṇānusaṃdhānaṃ kusumam ।
तेषामेव सर्वदा स्वीकरणं धूपः । teṣāmeva sarvadā svīkaraṇaṃ dhūpaḥ ।
पवनावच्छिन्नोत्ध्वज्वलनसच्चिदुल्काकाशदेहो दीपः । pavanāvacchinnotdhvajvalanasaccidulkākāśadeho dīpaḥ ।
समस्तयातायातवर्ज्यं नैवेद्यम् । samastayātāyātavarjyaṃ naivedyam ।
अवस्थात्रयाणामेकीकरणं ताम्बूलम् । avasthātrayāṇāmekīkaraṇaṃ tāmbūlam ।
मूलाधारादाब्रह्मरन्ध्रपर्यन्तं ब्रह्मरन्ध्रादामूलाधारपर्यन्तं गतागतरूपेण प्रादक्षिण्यम् । mūlādhārādābrahmarandhraparyantaṃ brahmarandhrādāmūlādhāraparyantaṃ gatāgatarūpeṇa prādakṣiṇyam ।
तुर्यावस्था नमस्कारः । turyāvasthā namaskāraḥ ।
देहशून्यप्रमातृतानिमज्जनं बलिहरणम् । dehaśūnyapramātṛtānimajjanaṃ baliharaṇam ।
सत्यमस्ति लर्तव्यमकर्तव्यमौदासीन्यनित्यात्मविलापनं होमः । satyamasti lartavyamakartavyamaudāsīnyanityātmavilāpanaṃ homaḥ ।
स्वयं तत्पादुकानिमज्जनं परिपूर्णध्यानम् । svayaṃ tatpādukānimajjanaṃ paripūrṇadhyānam ।
एवं मुहूर्तत्रयं (मुहूर्तद्वितयं मुहूर्तमात्रं वा) भावनापरो जीवन्मुक्तो भवति स एव शिवयोगीति evaṃ muhūrtatrayaṃ (muhūrtadvitayaṃ muhūrtamātraṃ vā) bhāvanāparo jīvanmukto bhavati sa eva śivayogīti
गद्यते। आदिमतेनान्तश्चक्रभावनाः । gadyate। ādimatenāntaścakrabhāvanāḥ ।
तस्य देवतात्मैक्यसिद्धिः । tasya devatātmaikyasiddhiḥ ।
चिन्तितकार्याण्ययत्नेन सिद्ध्यन्ति । cintitakāryāṇyayatnena siddhyanti ।
स एव शिवयोगीति कथ्यते । sa eva śivayogīti kathyate ।
कादिहादिमतोक्तेन भावना प्रतिपादिता । kādihādimatoktena bhāvanā pratipāditā ।
जीवन्मुक्तो भवति । jīvanmukto bhavati ।
य एवं वेद । ya evaṃ veda ।
इत्युपनिषत् । ityupaniṣat ।
(सोऽथर्वशिरोऽधीते ।) (so'tharvaśiro'dhīte ।)

भद्रं पश्येमाक्षभिर्यजत्राः। bhadraṃ paśyemākṣabhiryajatrāḥ।

इत्यथर्वणवेदे भावनोपनिषत्सम्पूर्णा ॥ ityatharvaṇavede bhāvanopaniṣatsampūrṇā ॥

Комментарии: Бхавана упанишада