Амритананда упанишада
अमृतनादोपनिषत्
amṛtanādopaniṣat
अमृतनादोपनिषत्प्रतिपाद्यं पराक्षरम् । amṛtanādopaniṣatpratipādyaṃ parākṣaram ।
त्रैपदानन्दसाम्राज्यं हृदि मे भातु सन्ततम् ॥ traipadānandasāmrājyaṃ hṛdi me bhātu santatam ॥
ॐ सह नाववतु । oṃ saha nāvavatu ।
सह नौ भुनक्तु । saha nau bhunaktu ।
सह वीर्यं करवावहै । saha vīryaṃ karavāvahai ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ tejasvināvadhītamastu mā vidviṣāvahai ॥
ॐ शान्तिः शान्तिः शान्तिः ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥
शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः । śāstrāṇyadhītya medhāvī abhyasya ca punaḥ punaḥ ।
परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ १॥ paramaṃ brahma vijñāya ulkāvattānyathotsṛjet ॥ 1॥
ओङ्कारं रथमारुह्य विष्णुं कृत्वाथ सारथिम् । oṅkāraṃ rathamāruhya viṣṇuṃ kṛtvātha sārathim ।
ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २॥ brahmalokapadānveṣī rudrārādhanatatparaḥ ॥ 2॥
तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः । tāvadrathena gantavyaṃ yāvadrathapathi sthitaḥ ।
स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ ३॥ sthitvā rathapathasthānaṃ rathamutsṛjya gacchati ॥ 3॥
मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् । mātrāliṅgapadaṃ tyaktvā śabdavyañjanavarjitam ।
अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ ४॥ asvareṇa makāreṇa padaṃ sūkṣmaṃ ca gacchati ॥ 4॥
शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् । śabdādiviṣayāḥ pañca manaścaivāticañcalam ।
चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५॥ cintayedātmano raśmīnpratyāhāraḥ sa ucyate ॥ 5॥
प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा । pratyāhārastathā dhyānaṃ prāṇāyāmo'tha dhāraṇā ।
तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६॥ tarkaścaiva samādhiśca ṣaḍaṅgo yoga ucyate ॥ 6॥
यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः । yathā parvatadhātūnāṃ dahyante dhamanānmalāḥ ।
तथेन्द्रियकृता दोषा दह्यन्ते प्राणनिग्रहात् ॥ ७॥ tathendriyakṛtā doṣā dahyante prāṇanigrahāt ॥ 7॥
प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । prāṇāyāmairdaheddoṣāndhāraṇābhiśca kilbiṣam ।
प्रत्याहारेण संसर्गाद्ध्यानेनानीश्वरान्गुणान् ॥ ८॥ pratyāhāreṇa saṃsargāddhyānenānīśvarānguṇān ॥ 8॥
किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ९॥ kilbiṣaṃ hi kṣayaṃ nītvā ruciraṃ caiva cintayet ॥ 9॥
रुचिरं रेचकं चैव वायोराकर्षणं तथा । ruciraṃ recakaṃ caiva vāyorākarṣaṇaṃ tathā ।
प्राणायामस्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ १०॥ prāṇāyāmastrayaḥ proktā recapūrakakumbhakāḥ ॥ 10॥
सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha ।
त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ११॥ triḥ paṭhedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate ॥ 11॥
उत्क्षिप्य वायुमाकाशं शून्यं कृत्वा निरात्मकम् । utkṣipya vāyumākāśaṃ śūnyaṃ kṛtvā nirātmakam ।
शून्यभावेन युञ्जीयाद्रेचकस्येति लक्षणम् ॥ १२॥ śūnyabhāvena yuñjīyādrecakasyeti lakṣaṇam ॥ 12॥
वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः । vaktreṇotpalanālena toyamākarṣayennaraḥ ।
एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ १३॥ evaṃ vāyurgrahītavyaḥ pūrakasyeti lakṣaṇam ॥ 13॥
नोच्छ्वसेन्न च निश्वासेत् गात्राणि नैव चालयेत् । nocchvasenna ca niśvāset gātrāṇi naiva cālayet ।
एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥ १४॥ evaṃ bhāvaṃ niyuñjīyāt kumbhakasyeti lakṣaṇam ॥ 14॥
अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु । andhavatpaśya rūpāṇi śabdaṃ badhiravat śaṛṇu ।
काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १५॥ kāṣṭhavatpaśya te dehaṃ praśāntasyeti lakṣaṇam ॥ 15॥
मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् । manaḥ saṅkalpakaṃ dhyātvā saṃkṣipyātmani buddhimān ।
धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ १६॥ dhārayitvā tathā''tmānaṃ dhāraṇā parikīrtitā ॥ 16॥
आगमस्याविरोधेन ऊहनं तर्क उच्यते । āgamasyāvirodhena ūhanaṃ tarka ucyate ।
समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ १७॥ samaṃ manyeta yaṃ labdhvā sa samādhiḥ prakīrtitaḥ ॥ 17॥
भूमिभागे समे रम्ये सर्वदोषविवर्जिते । bhūmibhāge same ramye sarvadoṣavivarjite ।
कृत्वा मनोमयीं रक्षां जप्त्वा चैवाथ मण्डले ॥ १८॥ kṛtvā manomayīṃ rakṣāṃ japtvā caivātha maṇḍale ॥ 18॥
पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा । padmakaṃ svastikaṃ vāpi bhadrāsanamathāpi vā ।
बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥ १९॥ baddhvā yogāsanaṃ samyaguttarābhimukhaḥ sthitaḥ ॥ 19॥
नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् । nāsikāpuṭamaṅgulyā pidhāyaikena mārutam ।
आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ २०॥ ākṛṣya dhārayedagniṃ śabdamevābhicintayet ॥ 20॥
ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् । omityekākṣaraṃ brahma omityekena recayet ।
दिव्यमन्त्रेण बहुशः कुर्यादात्ममलच्युतिम् ॥ २१॥ divyamantreṇa bahuśaḥ kuryādātmamalacyutim ॥ 21॥
पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः । paścāddhyāyīta pūrvoktakramaśo mantravidbudhaḥ ।
स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥ २२॥ sthūlātisthūlamātrāyaṃ nābherūrdhvarupakramaḥ ॥ 22॥
तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः । tiryagūrdhvamadho dṛṣṭiṃ vihāya ca mahāmatiḥ ।
स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ २३॥ sthirasthāyī viniṣkampaḥ sadā yogaṃ samabhyaset ॥ 23॥
तालमात्राविनिष्कम्पो धारणायोजनं तथा । tālamātrāviniṣkampo dhāraṇāyojanaṃ tathā ।
द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ २४॥ dvādaśamātro yogastu kālato niyamaḥ smṛtaḥ ॥ 24॥
अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च । aghoṣamavyañjanamasvaraṃ ca akaṇṭhatālvoṣṭhamanāsikaṃ ca ।
अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित् ॥ २५॥ arephajātamubhayoṣmavarjitaṃ yadakṣaraṃ na kṣarate kadācit ॥ 25॥
येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति । yenāsau paśyate mārgaṃ prāṇastena hi gacchati ।
अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥ २६॥ atastamabhyasennityaṃ sanmārgagamanāya vai ॥ 26॥
हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् । hṛddvāraṃ vāyudvāraṃ ca mūrdhadvāramataḥ param ।
मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २७॥ mokṣadvāraṃ bilaṃ caiva suṣiraṃ maṇḍalaṃ viduḥ ॥ 27॥
भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् । bhayaṃ krodhamathālasyamatisvapnātijāgaram ।
अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥ २८॥ atyāharamanāharaṃ nityaṃ yogī vivarjayet ॥ 28॥
अनेन विधिना सम्यङ्नित्यमभ्यसतः क्रमात् । anena vidhinā samyaṅnityamabhyasataḥ kramāt ।
स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥ २९॥ svayamutpadyate jñānaṃ tribhirmāsairna saṃśayaḥ ॥ 29॥
चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः । caturbhiḥ paśyate devānpañcabhistulyavikramaḥ ।
इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ ३०॥ icchayāpnoti kaivalyaṃ ṣaṣṭhe māsi na saṃśayaḥ ॥ 30॥
पार्थिवः पञ्चमात्रस्तु चतुर्मात्राणि वारुणः । pārthivaḥ pañcamātrastu caturmātrāṇi vāruṇaḥ ।
आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥ ३१॥ āgneyastu trimātro'sau vāyavyastu dvimātrakaḥ ॥ 31॥
एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् । ekamātrastathākāśo hyardhamātraṃ tu cintayet ।
सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ ३२॥ siddhiṃ kṛtvā tu manasā cintayedātmanātmani ॥ 32॥
त्रिंशत्पर्वाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः । triṃśatparvāṅgulaḥ prāṇo yatra prāṇaḥ pratiṣṭhitaḥ ।
एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥ ३३॥ eṣa prāṇa iti khyāto bāhyaprāṇasya gocaraḥ ॥ 33॥
अशीतिश्च शतं चैव सहस्राणि त्रयोदश । aśītiśca śataṃ caiva sahasrāṇi trayodaśa ।
लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥ ३४॥ lakṣaścaikonaniḥśvāsa ahorātrapramāṇataḥ ॥ 34॥
प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे । prāṇa ādyo hṛdisthāne apānastu punargude ।
समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५॥ samāno nābhideśe tu udānaḥ kaṇṭhamāśritaḥ ॥ 35॥
व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति । vyānaḥ sarveṣu cāṅgeṣu sadā vyāvṛtya tiṣṭhati ।
अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥ ३६॥ atha varṇāstu pañcānāṃ prāṇādīnāmanukramāt ॥ 36॥
रक्तवर्नो मणिप्रख्यः प्राणो वायुः प्रकीर्तितः । raktavarno maṇiprakhyaḥ prāṇo vāyuḥ prakīrtitaḥ ।
अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥ ३७॥ apānastasya madhye tu indragopasamaprabhaḥ ॥ 37॥
समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः । samānastu dvayormadhye gokṣīradhavalaprabhaḥ ।
आपाण्डर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥ ३८॥ āpāṇḍara udānaśca vyāno hyarcissamaprabhaḥ ॥ 38॥
यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि । yasyedaṃ maṇḍalaṃ bhitvā māruto yāti mūrdhani ।
यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते । yatra tatra mriyedvāpi na sa bhūyo'bijāyate ।
न स भूयोऽभिजायत इत्युपनिषत् ॥ ३९॥ na sa bhūyo'bhijāyata ityupaniṣat ॥ 39॥
ॐ सह नाववत्विति शान्तिः ॥ oṃ saha nāvavatviti śāntiḥ ॥
॥ इति कृष्णयजुर्वेदीय अमृतनादोपनिषत्समाप्ता ॥ ॥ iti kṛṣṇayajurvedīya amṛtanādopaniṣatsamāptā ॥

Комментарии: Амритананда упанишада