Адвайа-тарака упанишада

अद्वयतारक

॥ श्रीः ॥
उपनिषद्ब्रह्मयोगिविरचितं विवरणम्
श्रीमदप्पयशिवाचार्यविरचितभाष्योपेता

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ॐ शान्तिः शान्तिः शान्तिः ।

व्याख्येयो विषयः तदधिकारी च
। तारकयोगाधिकारः ।
[१]
योगोपायः तत्फलम्। योगानुष्ठानं तत्फलं च ।
अथातोऽद्वयतारकोपनिषदं व्याख्यास्यामः ।
यतये जितेन्द्रियाय शमादिषड्गुणपूर्णाय ॥ 1॥
अद्वयतारकपदार्थौ[२]चित्स्वरूपोऽहमिति सदा भवयन् सम्यङ्निमीलिताक्षः किञ्चिदुन्मीलिताक्षो वाऽन्तर्दृष्ट्या भ्रूदहरादुपरि सच्चिदानन्दतेजःकूटरूपं परं ब्रह्मावलोकयन् तद्रूपो भवति ॥2॥
[३]गर्भजन्मजरामरणभयात्संतारयति तस्मात्तारकमिति ।
जीवेश्वरौ मायिकाविति विज्ञाय सर्वविशेषं नेति नेतीति विहाय यदवशिष्यते ततद्वयं ब्रह्म ॥ 3॥
लक्ष्यत्रयानुसन्धानविधिः । तदधिगमोपायः -[४] तत्सिद्ध्यै लक्ष्यत्रयानुसंधानं कर्तव्यं ॥ 4॥

[५]देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी पूर्णचन्द्राभा वर्तते ।
सा तु मूलाधारादारभ्य ब्रह्मरन्ध्रगामिनी भवति ।
तन्मध्ये तटित्कोटिसमानकान्त्या मृणालसूत्रवत् सूक्ष्माङ्गी कुण्डलिनीति प्रसिद्धाऽस्ति ।
तां दृष्ट्वा मनसैव नरः सर्वपापविनाशद्वारा मुक्तो भवति ।
फालोर्ध्वगललाटविशेषमण्डले निरन्तरं तेजस्तारकयोगविस्फुरणेन पश्यति चेत् सिद्धो भवति ।
तर्जन्यग्रोन्मीलितकर्णरन्ध्रद्वये तत्र फूत्कारशब्दो जायते ।
तत्र स्थिते मनसि चक्षुर्मध्यगतनीलज्योतिस्स्थलं विलोक्य अन्तर्दृष्ट्या निरतिशयसुखं प्राप्नोति ।
एवं हृदये पश्यति ।
एवमन्तर्लक्ष्यलक्षणं मुमुक्षुभिरुपास्यं ॥ 5॥
बहिर्लक्ष्यलक्षणम् [६]अथ बहिर्लक्ष्यलक्षणं ।
नासिकाग्रे चतुर्भिः षड्भिरष्टभिः दशभिः द्वादशभिः क्रमात् अङ्गुलालन्ते नीलद्युतिश्यामत्वसदृग्रक्तभङ्गीस्फुरत्पीतवर्णद्वयोपेतं व्योम यदि पश्यति स तु योगी भवति ।
चलदृष्ट्या व्योमभागवीक्षितुः पुरुषस्य दृष्ट्यग्रे ज्योतिर्मयूखा वर्तते ।
तद्दर्शनेन योगी भवति ।
तप्तकाञ्चनसङ्काशज्योतिर्मयूखा अपाङ्गान्ते भूमौ वा पश्यति तद्दृष्टिः स्थिरा भवति ।
शीर्षोपरि द्वादशाङ्गुलसमीक्षितुः अमृतत्वं भवति ।
यत्र कुत्र स्थितस्य शिरसि व्योमज्योतिर्दृष्टं चेत् स तु योगी भवति ॥ 6॥

Cओम्मेन्तर्य् ई।##

मध्यलक्ष्यलक्षणम्
अथ मध्यलक्ष्यलक्षणं प्रातश्चित्रादिवर्णाखण्डसूर्यचक्रवत् वह्निज्वालावलीवत् तद्विहीनान्तरिक्षवत् पश्यति ।
तदाकाराकारितया अवतिष्ठति ।
तद्भूयोदर्शनेन गुणरहिताकाशं भवति ।
विस्फुरत्तारकाकारदीप्यमानगाढतमोपमं परमाकाशं भवति ।
कालानलसमद्योतमानं महाकाशं भवति ।
सर्वोत्कृष्टपरमद्युतिप्रद्योतमानं तत्त्वाकाशं भवति ।
कोटिसूर्यप्रकाशवैभवसङ्काशं सूर्याकशं भवति ।
एवं बाह्याभ्यन्तरस्थव्योमपञ्चकं तारकलक्ष्यं ।
तद्दर्शी विमुक्तफलस्तादृग्व्योमसमानो भवति ।
तस्मात्तारक एव लक्ष्यममनस्कफलप्रदं भवति ॥ 7॥

Cओम्मेन्तर्य् ई।##
अन्तर्बाह्यलक्ष्यस्वरूपमुक्त्वा मध्यलक्ष्यस्वरूपमाह ##-####-## अथेति ।
तद्दर्शी विमुक्तस्वाज्ञानतत्कार्यफलः । यस्मादेवं तस्मात् ॥ 7॥

Cओम्मेन्तर्य् ईई।##
उक्तानां लक्ष्यत्रयव्योम्नां भौतिकत्वशङ्का नन्विह अन्तर्लक्ष्यबाह्यलक्ष्यमध्यलक्ष्यलक्षणेषु उच्यमानेषु नीलरक्तपीत्रचित्रादिवर्णयुक्तव्योमदर्शनानि अवगम्यन्ते ।
नैतैः दर्शनैः किञ्चिदपि मुमुक्षोः प्रयोजनं भवितुमर्हति ।
कुतः नानाविधज्योतिर्विषयकत्वेन भौतिकत्वात् ।
यदि ब्रह्मज्योतिर्दर्शनं स्यात्तदा क्रममुक्त्यै वा तत् उपयुक्तं स्यात् ।
न तु तदेतत् ।
ब्रह्मणः एवं नानाविधत्वाभावात् ।
भौतिकानि तु ज्योतींषि उपाधिभेदात् बहुविधानि भवितुमर्हन्ति ।
तस्मात् प्रपञ्चितलक्षणबहुविधज्योतिर्दर्शनानि सिद्ध्यर्थकानि स्युः ।
उपनिषदां वैयर्थ्यकल्पनानर्हत्वात् ।
इति चेत् ##-####-##

तन्निरसनेन एषां मुमुक्षूपयोगित्वनिर्णयः
अत्रोच्यते ।
निर्विशेषस्य परस्य ब्रह्मण एव एतानि ज्योतींषि इति ।
कुतः भौतिकज्योतिषं देहाद्बहिः दर्शनीयत्वेन देहान्तदर्शनायोग्यत्वात् ।
प्रत्यगात्मज्योतिषः एकरूपत्वेऽपि विविधनाडीवन्नाडीसम्बन्धवशात् नानावर्णोपपत्तेः ।
यथा एकवृत्तिमानप्यात्मा नानानाडीसम्बन्धवशात् जाग्रत्स्वप्नसुषुप्त्यवस्थाविशेषैः नानाविधः अनुभूयते तद्वत् ।
यद्यपि एतेषां ज्योतिषाम्खण्डत्वेन दर्शनविषयत्वाभात् क्रममुक्त्यै परम्परया सद्योमुक्त्यै वा साधनत्वण् स्यात् ।
न तु साक्षात् सद्योमुक्त्यै ।
न तु तावता सिद्ध्यार्थकानि मुमुक्षोः अनुपयुक्तानीति वक्तुं युक्तं ॥ 5##-##7॥

टेxत्##

द्विविधं तारकम्
तत्तारकं द्विविधं पूर्वार्धं तारकमुत्तरार्धममनस्कं चेति ।
तदेष श्लोको भवेति ##-####-##
तद्योगं च द्विधा विद्धि पूर्वोत्तरविधानतः ।
पूर्वं तु तारकं विद्यात् अमनस्कं तदुत्तरमिति ॥ 8॥

टेxत्##
तारकयोगसिद्धिः

Eद् ।
ईई।## तारकयोगस्य सोमसृर्यैक्यदर्शनैकफलकत्वं ।
अक्ष्यन्तस्तारयोः चन्द्रसूर्यप्रतिफलनं भवति ।
तारकाभ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव पिण्डाण्डशिरोमध्यस्थाकाशे रवीन्दुमण्डलद्वितयमस्तीति निश्चित्य तारकाभ्यां तद्दर्शनं ।
अत्राप्युभयैक्यदृष्ट्या मनोयुक्तं ध्यायेत् तद्योगाभावे इन्द्रयप्रवृत्तेरनवकाशात् ।
तस्मातन्तर्दृष्ट्या तारक एवानुसंधेयः ॥ 9॥

Cओम्मेन्तर्य् ई।##
ब्रह्माण्डवत् पिण्डाण्डेऽपि रवीन्दू विद्येते इति निश्चित्य तारकाभ्यां तदैक्यदर्शनतः तारकयोगसिद्धिः भवेदित्याह ##-####-## अक्षीति ॥
अयोगी यथा ब्रह्माण्डस्थचन्द्रसूर्यौ मनस्सहकृततारकाभ्यां पश्यति तथा योगी स्वमस्तकाकाशविभातरवीन्दुद्वयं मनस्सहकृतताराभ्यां अवलोकयेदित्यर्थः ।
रूपदर्शनस्य चक्षुरधीनत्वात् किं मनसेत्यत आह ##-####-## तदिति ।
मनसि अन्यत्र व्यापृते रूपादिग्रहणशक्तिः चक्षुरादेः नास्तीत्यत्र अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमित्यादिश्रुतेः ।
यस्मादेवं तस्मात् ॥ 9॥

Cओम्मेन्तर्य् ईई।##
ननु निर्गुणाकाशं परमाकाशं महाकाशं तत्त्वाकाशं सूर्याकाशं चेति तारकलक्ष्यं आकाशपञ्चकमभिधीयते ।
अत्र कथं पूर्वोत्तरार्धविभागः इति ।
अत्रोच्यते ।
उभयैक्यदृष्ट्या मनोयुक्तं ध्यायेतिति तार एवानुसन्ध्येयः ।
इति च ध्यानयोगाभ्यासस्य विहितत्वात् ।
तदभ्यासकालः पूर्वार्धः तारकयोगसंज्ञकः तत्फलीभूतज्योतिर्दृशनकालः उत्तरार्धः अमनस्कयोगसंज्ञकः ।
एवमेव च आकाशपञ्चकदर्शने पूर्वोत्तरविभागो मन्तव्यः ॥ 9॥

टेxत्##
मूर्तामूर्तभेदेन द्विविधमनुसन्धेयम् तारकं द्विविधं मूर्तितारकं अमूर्तितारकं चेति ।
यतिन्द्रियान्तं तत् मूर्तिमत् ।
यत् भ्रूयुगातीतं तत् अमूर्तिमत् ।
सर्वत्र अन्तःपदार्थविवेचने मनोयुक्ताभ्यास इष्यते ।
तारकाभ्यं तदूर्ध्वस्थसत्त्वदर्शनात् मनोयुक्तेन अन्तरीक्षणेन सच्चिदानन्दस्वरूपं ब्रह्मैव ।
तस्मात् शुक्लतेजोमयं ब्रह्मेति सिद्धं ।
तद्ब्रह्म मनःसहकारिचक्षुषा अन्तर्दृष्ट्या वेद्यं भवति ।
एवममूर्तितारकमपि ।
मनोयुक्तेन चक्षुषैव दहरादिकं वेद्यं भवति रूपग्रहणप्रयोचनस्य मनश्चक्षुरधीनत्वात् बाह्यवदान्तरेऽपि आत्ममनश्चक्षुःसंयोगेनैव रूपग्रहणकार्योदयात् ।
तस्मान्मनोयुक्ता अन्तर्दृष्टिः तारकप्रकाशाय भवति ॥ 10॥

Cओम्मेन्तर्य् ई।##
यदनुसन्धेयं तत् कतिविधमित्यत्र तत्तारकं ॥
बाह्यपदार्थविवेचनवत् अन्तःपदार्थविवेचनमपि मनश्चक्षुरधीनमित्याह ##-####-## सर्वत्रेति ।
तदूर्ध्वस्थसत्त्वदर्शनात् भ्रूमध्योर्ध्वविलसितोत्तरतारकलक्ष्यदर्शनात् ।
केनैतद्दर्शनीयमित्यत्र मनोयुक्तेनेति ।
ब्रह्मैव उत्तरतारकलक्ष्यमित्यनुसंधेयं ।
यस्मादेवं तस्मात् ।
भ्रूमध्यादिस्थलविलसित्शुक्लतेजसो मनःकल्पितत्वेऽपि ब्रह्मणः सर्वव्यापकत्वेन तत्रापि विद्यमानत्वात् तदेव ब्रह्मेति अभिमतिद्रढिम्ना लीने तत्र मनसि कल्पकसापेक्षकल्पनावैरळये निर्विकल्पकं ब्रह्मैव अवशिष्यते इत्यर्थः ।
यत्तेजो मनःकल्पितं तद्ब्रह्म ।
यस्मादेवं तस्मात् ॥ 10॥

Cओम्मेन्तर्य् ईई।##
मूर्तितारकामूर्तितारकयोश्च इन्द्र्यान्तभ्रूयुगातीतत्वकथनेन सगुणमूर्तिध्यानपरत्वं चावगन्तव्यं ।
सगुणमूर्तिध्यानस्य च निष्कामकृतस्य च क्रममुक्तिचित्तशुद्धिप्रयोजनतया सुप्रसिद्धत्वात् ॥ 10॥

टेxत्##
तारकयोगस्वरूपं भ्रूयुगमध्यबिले दृष्टिं तद्द्वारा ऊर्ध्वस्थिततेज आविर्भूतं तारकयोगो भवति ।
तेन सह मनोयुक्तं तारकं सुसंयोज्य प्रयत्नेन भ्रूयुग्मं सावधानतया किञ्चिदूर्ध्वम्त्क्षेपयेत् ।
इति पूर्वतारकयोगः ।
उत्तरं तु अमूर्तिमतमनस्कमित्युच्यते ।
तालुमूलोर्ध्वभागे महान् ज्योतिर्मयूखो वर्तते ।
तत् योगिभिर्ध्येयं ।
तस्मातणिमादिसिद्धिर्भवति ॥ 11॥

Cओम्मेन्तर्य् ई।##
कोऽयं तारकयोग इत्यत्र भ्रूयुगमध्यबिले तत्रत्याज्ञाचक्रे दृष्टियुग्मं संनिवेश्य ।
सावधानतया विलोकयन् । ध्येयं तज्ज्योतिः ब्रह्मेति योगिभिश्चिन्त्यमित्यर्थः ।
ततः किं भवतीत्यत्र तस्मादिति ॥ 11॥

Cओम्मेन्तर्य् ईई।##
प्रकृतयोगे पूर्णमनोविलयाभावेन दृश्यमानज्योतिषः प्रत्यगात्मस्वरूपत्वनिर्णयः इदं ज्योतिः त्वंपदार्थः आहोस्वित् तत्पदार्थः इति संशीयते ।
कुतः संशयः त्वंपदार्थविवेचन इति सच्चिदानन्दस्वरूपं ब्रह्मैवेति च उक्तत्वात् ।
अत्रोच्यते ।
त्वंपदार्थः प्रत्यगात्मैव ।
ब्रह्मांशत्वात्तु ब्रह्मत्वमुपचर्यते साक्षाद्ब्रह्मयोगो हि मनोवियुक्ताभ्यासरूपः ।
तत्रैव मनोनाशसम्भवात् ।
मनोयुक्ताभ्यासस्तु प्रकृतः कण्ठरवोक्तः ।
मनस्सहकारिचक्षुषा वेद्यं भवतीति च ।
यदि मनसैव वेद्यमित्युक्तं तदा अन्तर्दृष्टेः मनोऽनन्यत्वात् मनसः ब्रह्मणि विलयसम्भवाच्च अखण्डब्रह्मयोग एव विवक्षितः इति वक्तुं शक्यं ।
न तु तदस्ति ।
प्रत्यगात्मयोगे च आन्तरे बाह्यवत् आत्ममनश्चक्षुस्संयोगेनैव रूपग्रहणकार्योदयः स्यात् ।
न तु ब्रह्मयोगे तदीयाखण्डसम्यग्दर्शनं चक्षुरधीनं मनोऽदीनं वा भवति ।
चक्षुर्मनसी पृष्ठतः कृत्वा स्वयंप्रकशमानत्वात् ।
ननु मनोयुक्तान्तर्दृष्टिरित्युक्तत्वात् मनसः अन्तर्दृष्टिद्वारा ब्रह्मणि विलय एव अर्थादवगम्यते इति चेत्र ।
बह्यवदित्युक्तत्वेन प्रकृतयोगे मनोविलयासम्भवात् ।
तात्कालिकस्तु मनोलयः सुषुप्तस्येव नात्यन्त श्लाध्यतमो भवितुमर्हति ।
यद्वा क्रममुक्तिसाधनीभूतोऽपि स मनोलयः पुनर्जन्मबीजभर्जनाभावात् न नाशापरपर्यायः इत्यवगन्तव्यं ॥ 11॥

टेxत्##
शाम्भवीमुद्रा अन्तर्बाह्यलक्ष्ये दृष्टौ निमेषोन्मेषवर्जितायां सत्यं सांभवी मुद्रा भवति ।
तन्मुद्रारूढज्ञानिनिवासात् भूमिः पवित्रा भवति ।
तद्दृष्ट्या सर्वे लोकाः पवित्रा भवन्ति ।
तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवति ॥ 12॥

Cओम्मेन्तर्य् ई।##
यत्योगिभिः ध्येयमुक्तं पर्यवसाने तदेव सांभवी मुद्रा भवतीत्याह अन्तरिति ॥
मुद्रा भवति इत्यत्र अन्तर्लक्ष्यं बहिर्दृष्टिः निमेषोन्मेषवर्जिता ।
एषा सा शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता ॥
इति श्रुतेः । तन्मुद्रारूढयोगिनं स्तौति ##-####-## तदिति ।
पवित्रा भवति इत्यत्र स्वपादन्यासमात्रेण पावयन् वसुधातलं इति स्वरूपदर्शनोक्तेः ।
पवित्रा भवन्ति ##-####-## स्वेचरा भूचराः सर्वे ब्रह्मविद्दृष्टिगोचराः ।
सद्य एव विमुच्यन्ते कोटिजन्मार्जितैरघैः ॥
इति श्रुतेः ॥ 12॥

टेxत्##
अन्तर्लक्ष्यविकल्पाः अन्तर्लक्ष्यज्वलज्ज्योतिःस्वरूपं भवति ।
परमगुरूपदेशेन सहस्रारज्वलज्ज्योतिर्वा बुद्धिगुहानिहितचिज्ज्योतिर्वा षोडशान्तस्थतुरीयचैतन्यं वा अन्तर्लक्ष्यं भवति ।
तद्दर्शनं सदाचार्यमूलं ॥ 13॥

Cओम्मेन्तर्य् ई।##
अन्तर्लक्ष्यं विकल्प्य निर्धारयति ##-####-## परमेति ॥
उक्तविकल्पानां एकार्थपर्यवसायित्वात् तद्दर्शनमूलं किमित्यत्र ##-####-##
तद्दर्शनमिति ॥ 13॥

टेxत्##
आचार्यलक्षणम् आचार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः ।
योगज्ञो योगनिष्ठश्च सदा योगात्मकः शुचिः ॥ 14॥

गुरुभक्तिसमायुक्तः पुरुष्ज्ञो विशेषतः ।
एवं लक्षणसंपन्नो गुरुरित्यभिधीयते ॥ 15॥

गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः ।
अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥ 16॥

गुरुरेव परं ब्रह्म गुरुरेव परा गतिः ।
गुरुरेव परा विद्या गुरुरेव परायणं ॥ 17॥

गुरुरेव परा काष्ठा गुरुरेव परं धनं ।
यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुरिति ॥ 18॥

Cओम्मेन्तर्य् ई।##
आचार्यलक्षणमुक्त्वा गुरुशब्दार्थमाह ##-####-## गुशब्दस्त्विति ॥ 14##-##18॥

Cओम्मेन्तर्य् ईई।##
परमात्मदर्शनाङ्गभूतप्रत्यगात्मदर्शनस्य सर्वथा अनुपेक्षणीयत्वोद्धोषः नन्विह तादृशपरमयोगिपूजा यस्य लभ्यते सोऽपि मुक्तो भवतीति
एतादृशानि वाक्यानि अर्थवादाः एवस्युः ।
कुतः सहस्रारज्वलज्ज्योतिर्वा ##-####-## इत्यादिवाक्योक्तदेहपरिच्छिन्नज्योतिर्मात्रे पर्यवसन्नायाः अस्याः उपनिषद आद्यन्तपर्यालोचनेऽपि
अपरिच्छिन्नब्रह्मात्मैक्ययोगस्य क्वचिदपि अनुक्तत्वात् ।
इति चेत् ##-####-## अत्रोच्यते ।
सत्यमेवैतत् ।
त्वंपदलक्ष्यार्थसिद्ध्या अहंपदलक्ष्यार्थस्यापि सिद्धित्वेन कैमुतिकन्यायात् ब्रह्मपदार्थसिद्धेः कथं त्वमहंपदार्थयोः भेदः नायं दोषः ।
त्वं पदस्य खण्डप्रत्यगात्मार्थकत्वात् ।
अहंपदस्य तत्त्वमसिवाक्यार्थज्ञानोदयानन्तरं अखण्डब्रह्मयोगाभ्यासार्थं ग्राह्यत्वेन अखण्डप्रत्यगात्मार्थकत्वाच्च त्वमहंपदयोः भेदस्य विस्पष्टत्वात् ।
तस्मादत्र उक्तयोगिनः सद्योमुक्त्यभावेन औपचरिकपरमत्त्वेन च प्रकृतवाक्यानि अर्थवादा एव ।
तथापि स्वदेहान्तर्वर्तिज्योतिदर्शनं विना तत्त्वमसि इति उपदिशतामहं ब्रह्मास्मीति वाङ्मात्रेण प्रलपतां च भ्रान्ततमानां कल्पकोटिष्वपि संसारबन्धान्मोक्षासम्भवात् मोक्षप्रथमसाधनत्वाच्चास्य दर्शनस्य उपेक्षा न कदापि कार्या इति स्थितं ॥ 12##-##18॥

टेxत्##
ग्रन्थाभ्यासफलम् यः सकृदुच्चारयति तस्य संसारमोचनं भवति ।
सर्वजन्मकृतं पापं तत्क्षणादेव नश्यति ।
सर्वान् कामानवाप्नोति ।
सर्वपुरुषार्थसिद्धिर्भवति ।
य एवं वेदेत्युपनिषत् ॥ 19॥

Cओम्मेन्तर्य् ई।##
ग्रन्थतदर्थपठनानुसन्धानफलमहा ##-####-## य इति ॥
कामाकामधियां पठनफलं सर्वकामाप्तिः परमपुरुषार्थाप्तिश्च ।
इत्युपनिषच्छब्दः अद्वयतारकोपनिषत्समाप्त्यर्थः ॥ 19॥

श्रीवासुदेवेन्द्रशिष्योपनिषद्ब्रह्मयोगिना ।
अद्वयोपनिषद्व्याख्या लिखितेश्वरगोचरा ।
अद्वयोपनिषद्व्याख्याग्रन्थोऽशीतिरितीरितः ॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ।

इति श्रीमदीशाद्यष्टोत्तरशतोपनिषच्छास्त्रविवरणे त्रिपञ्चाशत्सङ्ख्यापूरकं अद्वयतारकोपनिषद्विवरणण् संपूर्णं ।

इति श्रीमत्सुन्दरेश्वरताताचार्यशिष्याप्पयशिवाचार्यकृतिषु अद्वयतारकोपनिषद्भाष्यं समाप्तं ॥ ॐ ॥

ॐ श्रीमद्विश्वाधिष्ठनपरमहंससद्गुरुरामचन्द्रार्पणमस्तु ॥

Автор: Адвайа-тарака упанишада

  • 0
Поделиться этой страницей в соцсетях:

Комментарии: Адвайа-тарака упанишада